________________
सूत्र - २४-२५, अष्टमः किरणः
५७१
अथ पाराञ्चितमाह
राजवधादितीर्थकराद्याशातनाकरणेन यावद् द्वादशवर्षमतिचारपारगमनतो राजप्रतिबोधादिप्रवचनप्रभावनया पुनः प्रव्राजनं पाराञ्चितम् ।२५।
राजर्वधादीति । यस्मिन् प्रतिसेविते लिङ्गक्षेत्रकालतपसां पारमञ्चति तत्पाराञ्चितं, पारमन्तं प्रायश्चित्तानां तत उत्कृष्टतरप्रायश्चित्ताभावादपराधानां वा पारमञ्चति गच्छतीत्येवं शीलं पाराञ्चि, तदेव पाराञ्चिकमिति नामान्तरम् । राजवधस्वलिङ्गिघातादिसेवनाभिरिदं प्रायश्चित्तमापद्यते, एतच्चाचार्याणामेव जघन्यत षण्मासानुत्कृष्टतो द्वादशवर्षाणि यावद्भवति ततश्चाऽतिचारपारगमनानन्तरं प्रव्राज्यते । प्रव्राजनञ्च राजप्रतिबोधादिप्रवचनप्रभावेण तस्य भवतीति भावार्थः । तद्दशविधं प्रायश्चित्तं देशं कालं शक्तिं संहननं संयमविराधनाञ्च कायेन्द्रियजातिगुणोत्कर्षञ्च प्राप्य विशुद्ध्यर्थं यथार्ह दीयते चाचर्यते च । तत्रोपाध्यायस्य पाराञ्चिक योग्यापराधसम्भवेऽपि अनवस्थाप्यमेव प्रायश्चित्तं न तु पाराञ्चितं, अनवस्थाप्यान्तस्यैवोपाध्यायस्य शास्त्रे प्रतिपादनात्सामान्यसाधूनामपि अनवस्थाप्यपाराञ्चितयोग्यापराधसम्भवे मूलान्तमेव प्रायश्चित्तं, तच्चानवस्थाप्यमाशातनानवस्थाप्यमाश्रित्य जघन्यतो यावत् षण्मासान् वर्षमुत्कर्षेण प्रतिसेवनानवस्थाप्यापेक्षया तु जघन्यतो वर्षमुत्कृष्टतो द्वादशवर्षाणि भवति । तीर्थकरप्रवचनगणधराद्यधिक्षेपकारी-आशातनानवस्थाप्यः, हस्तताडनसाधर्मिकान्यधार्मिक स्तैन्यकारी प्रतिसेवनानवस्थाप्य इति ।
पाथित (पायिs) प्रायश्चित्तनुं वनिભાવાર્થ - રાજાના વધ આદિની-તીર્થંકર આદિની આશાતના કરવા દ્વારા બાર વર્ષો સુધી અતિચારના પારગમનથી, રાજપ્રતિબોધ આદિ પ્રવચનની પ્રભાવનાથી ફરીથી પ્રવ્રજયાપ્રદાન, એ “પારાંચિત પ્રાયશ્ચિત્ત' डेवाय छे. ___ विवेयन - नी प्रतिसेवना [पा लिंग-क्षेत्र-10-तपोन। पारने पामेछ, ते '२iयित' वाय છે. પારને એટલે પ્રાયશ્ચિત્તોના અંતને, કેમ કે ત્યારબાદ (તેના પછી) ઉત્કૃષ્ટતર પ્રાયશ્ચિત્તનો અભાવ છે અથવા અપરાધોના પારને પામે છે, એવો જે સ્વભાવ, તે પારાંચિત' કહેવાય છે. તે જ પારાંચિક'- એવું બીજું નામ છે.
१. मूले राजवधादीत्यनेन प्रतिसेवनापाराञ्चिकः तीर्थकरादीत्यनेनाशातनापाराञ्चिकश्च सूचितः । आद्येनादिनामात्यप्राकृतगृहस्थादीनां वध सङग्रहः द्वितीयेन च सङ्घश्रुताचार्यगणधरमहातपस्विनाम् ॥ २. जघन्यमिदमाशातना पाराञ्चिकस्य, अस्योत्कर्षों द्वादशमासाः । प्रतिसेवनापाराञ्चिकस्य तु जघन्यं संवत्सरकालं, उत्कर्षतस्तु द्वादशवर्षाणीति ॥