________________
२२
तत्त्वन्यायविभाकरे ननु सम्यक्श्रद्धासंविच्चरणेषु त्रित्वावच्छेदेन कारणत्वोक्तावपि समुदायिनामज्ञाने समुदायज्ञानाभावेन तत् कारणताया बोधासम्भवात्तत्प्रतिपत्त्यर्थं यथोद्देशं सम्यक्श्रद्धां लक्षयति -
तत्त्वेष्वास्था सम्यक्श्रद्धा । २ । तत्त्वेष्विति । तत्त्वेष जीवादिषु आस्था-अभिरुचिः सम्यक्श्रद्धेत्यर्थः । आस्था च पौरुषेयो जीवस्य शक्तिविशेषो यामासाद्यायं सम्यग्दर्शनीत्युच्यते । नतु सम्यक्त्वमोहनीयकर्मपुद्गलद्रव्यं, आत्मपरिणामविशेषस्यैव मोक्षकारणत्वेन विवक्षितत्वात् । तत्रापनीतमिथ्यास्वभावसम्यक्त्वपुञ्जगतपुद्गलवेदनस्वरूपं क्षायोपशमिकं पौद्गलिकं सम्यक्त्वम्, केवलजीवपरिणामरूपं पुञ्जत्रयस्य सर्वथा क्षयादुपशमाच्च जातं क्षायिकमौपशमिकञ्चापौद्गलिकम् ॥
तथा नैश्चयिकव्यावहारिकभेदेन सम्यक्त्वं द्विविधम्, तत्र यद्देशकालसंहननानुरूपं यथाशक्ति यथावत्संयमानुष्ठानरूपमविकलं मुनिवृत्तं तन्नैश्चयिकं सम्यक्त्वम्, व्यावहारिकं तु न केवलं उपशमादिलिङ्गगम्यश्शुभात्मपरिणामः, किन्तु सम्यक्त्वहेतुरपि अर्हच्छासनप्रीत्यादिः । तदपि पारम्पर्येण शुद्धचेतसामपवर्गहेतुर्भवति, एवं त्रिचतुःपञ्चदशविधमपि तद्भवतीति बोध्यम् ॥ न च सम्यग्दर्शनं विहाय सम्यक्श्रद्धा कथमुक्तेति वाच्यम् । तथोक्तावपि श्रद्धाया एवाभिप्रेतत्वात् । न च तत्त्वपदेन न जीवादीनां ग्रहणं भाववाचित्वादिति वाच्यम्, भावस्य तदभिन्नत्वेनाध्यारोपाद् यथा ज्ञानमेवात्मेति । न च तद्यर्थेष्वास्थेत्येवोच्यतामिति वाच्यं तत्त्वग्रहणमन्तरेण मिथ्यावादिप्रणीतेषु सर्वार्थेषु श्रद्धायाः सम्यक्श्रद्धात्वापत्तेः । तथा च तत्त्वाव्यभिचारिण्यभिरुचिः सम्यक्श्रद्धेति फलितार्थः । न चाभिरुचिरभिलाषः, स चात्मनो बहुश्रुतत्वप्रख्यापनार्थमधीतार्हतदर्शनेषु मिथ्यादृष्टिष्वप्यस्तीति वाच्यं, आत्मनः पौरुषेयशक्ति विशेषस्यैवाभिरुचिपदेन विवक्षितत्वात्, अन्यथा लोभात्मकयाभिलाषस्य क्षीणमोहकेवलिन्यभावेन तत्र सम्यक्त्वाभावप्रसङ्गात्, तस्याश्च शक्ते : यथार्हदागमं रागाद्यनुद्रेकात् संवेगात् विषयानभिष्वङ्गात् सर्वप्राणिषु कृपोदयादास्तिक्यबुद्धेश्चाभिव्यज्यमानत्वात् । इयञ्च शक्तिविशेषलक्षणाभिरुचिरान्तरश्रद्धेत्युच्यते, तदुपकारितया तत्प्ररूपणप्रवणसूत्रशब्दराशिरपि सम्यक्श्रद्धानमुच्यते, तदुत्पादोपकरणतया च कर्मविशेषः सम्यक्त्वाख्यां लभते । इयं सर्वद्रव्यभावविषयाऽभिरुचिरूपा सम्यक्श्रद्धैकरूपापि परोपदेशापरोपदेशरूपबाह्यनिमित्तभेदतो द्वैविध्यमश्नुते, उभयविधायामपि तस्यां क्षयक्षयोपशमोपशमसास्वादनवेदकरूपनिमित्तभेदतश्च भेद आन्तरोऽवसेयः । तत्र परोपदेश उपलक्षकः, आगमप्रतिमादर्शनशिक्षानिमित्तादीनाम्, तथा