________________
सूत्र - ७६-७७, सप्तमः किरणः
५२३
૦ ઉપશમશ્રેણિથી કે ક્ષપકશ્રેણિથી મોહનીય, ઉપશાન્ત કે ક્ષીણ થવાથી મોહવર્જીત (૭) સાત કર્મપ્રકૃતિઓનો ય સંત નિર્ગસ્થ અવસ્થામાં વેદક છે.
उदीरणाद्वारमाह
उदीरणाद्वारे-सामायिकछेदोपस्थापनीयपरिहारविशुद्धिका अष्टौ सप्त षड्वा कर्मप्रकृतीरुदीरयन्ति । सूक्ष्मसम्पराय आयुर्वेदनीयवर्जषट्कर्मप्रकृतीरायुर्वेदनीयमोहवर्जपञ्चकर्मप्रकृतीर्वोदीरयति । यथाख्यातस्तु द्वे वा पञ्च वा कर्मप्रकृतीरुदीरयति चतुर्दशगुणस्थाने त्वनुदीरक इति । ७७ ।
उदीरणाद्वार इति । उदयावलिकातो बहिर्वतिनीनां स्थितीनां दलिकस्य कषायैस्सहितेनासहितेन वा योगसंज्ञकेन वीर्यविशेषेण समाकृष्योदयावलिकायां प्रवेशनमुदीरणा, तस्याः पञ्चस्थानानि, सप्ताष्टौ षट् पञ्च द्वे इति । अष्टाविति, प्रमत्तगुणस्थानं यावत्परिपूर्णा अष्टप्रकृतीरित्यर्थः । सप्तेति, केवलमनुभूयमानभवायुष्कावलिकावशेषे सत्यायुष आवलिकाप्रविष्टत्वेनोदीरणाया अभावादिति भावः । षड्वेति, अप्रमत्तापूर्वकरणानिवृत्तिबादरा वेदनीयायुर्वर्जानां षण्णां कर्मणामुदीरकाः, न तु वेदनीयायुषोः, तदुदीरणायोग्याध्यवसायाभावात् अतिविशुद्धत्वादिति भावः । सूक्ष्मसम्पराय इति, यावन्मोहनीयमावलिकाशेषं न भवति तावत् षण्णां, आवलिकाशेषे च मोहनीये तस्याप्युदीरणाया अभावात्पञ्चानामुदीरक इति भावः । द्वे वेति, क्षीणमोहे ज्ञानदर्शनावरणान्तरायेष्वावलिकामात्रावशिष्टेषु तेषामुदीरणाया अभावान्नामगोत्रलक्षणे द्वे एव कर्मणी उदीरयतीति भावः । पञ्च वेति, उपशान्तमोहे वेद्यमानस्यैवोदीरणानियमेन मोहनीयस्योदयाभावेनोदीरणाया अभावाद्वेदनीयायुषोश्च पूर्वोक्तकारणेनाभावात्, क्षीणमोहे मोहस्य क्षीणत्वाच्च पञ्चानां कर्मणामुदीरक इति भावः । अनुदीरक इति, उदीरणाया योगसव्यपेक्षत्वेन तत्र योगाभावादिति भावः ॥
(२४) ही२९॥२भावार्थ - सामायि-छोपस्थापनीय-परिवारविशुद्धिी मा6 (८), सात (७) अथवा ७ (६) કર્મપ્રકૃતિઓની ઉદીરણા કરે છે. સૂક્ષ્મસંપરાય સંયતને આયુષ્ય-વેદનીયને છોડી છ (૬) કર્મપ્રકૃતિઓની અથવા આયુષ્ય-વેદનીય-મોહનીયને છોડી પાંચ (૫) કર્મપ્રકૃતિઓની ઉદીરણા હોય છે. યથાખ્યાત સંયતને તો બે અથવા પાંચ (૫) કર્મપ્રકૃતિઓની ઉદીરણા હોય છે. ચૌદ(૧૪)માં ગુણસ્થાનમાં યથાખ્યાત સંયત તો उहा२९॥ वरना होय छे. .
વિવેચન - ઉદીરણા એટલે ઉદયાવલિકાથી બહાર વર્તનારી સ્થિતિઓના દલિકોનો કષાયોની સાથે રહેલ કે સાથે નહિ રહેલ યોગ નામના વિશિષ્ટ વીર્યદ્વારા ખેંચીને ઉદયાવલિકામાં પ્રવેશ કરાવવો.