________________
५०५
सूत्र - ६५, सप्तमः किरणः
संख्येययोजनाध्वानमारुह्य मेरुपलक्षितदक्षिणभागार्धे प्राग्व्यवस्थितः प्राचीप्रतीच्यायत उदग्दक्षिणविस्तीर्णोऽर्धचन्द्राकृतिर्भास्वरः परिक्षेपत आयामविष्कम्भाभ्याञ्चासंख्येययोजनकोटीकोट्यो लोकान्तविस्तारस्सर्वरत्नमयोऽशोकसप्तपर्णचम्पकचूतसौधर्मावतंसकोपशोभितशक्रावासस्सौधर्मः कल्पः । तस्योपरि चोदग्व्यवस्थित ईषदुपरितनकोट्यां समुच्छ्रिततरो मध्यव्यवस्थिताङ्कस्फटिकरजतजातरूपेशानावतंसकविभूषित ऐशानकल्पः । सौधर्मस्योपरि बहूनि योजनान्यतिक्रम्य सौधर्मकल्पवत्सनत्कुमारः । अस्योपरि माहेन्द्रः कल्प ऐशानकल्पवत् । सनत्कुमारमाहेन्द्रकल्पयोरुपरि बहूनि योजनान्यतीत्य मध्यवर्ती सकलनिशाकराकृतिर्ब्रह्मकल्पः । एवमुपर्युपरि लान्तकमहाशुक्रसहस्त्रारास्त्रय कल्पाः, तदुपरि बहूनि योजनान्यतिक्रम्य सौधर्मैशानकल्पद्वयवदानतप्राणतनामानौ द्वौ कल्पौ तदुपरि समश्रेणिव्यवस्थितौ सनत्कुमारमाहेन्द्रवदारणाच्युताविति द्वादश देवलोकाः ॥ तत्र कीदृशानां देवानां निवास इत्यत्राहकल्पोपपन्नदेवानामिति । दीव्यन्तीति देवाः, प्राग्भवोपात्तपुण्यप्राग्भारोपनतविशिष्टभोगसुखाः प्राणिविशेषाः, तत्र कल्पा इन्द्रादिदशतया कल्पनात् कल्पाः, कल्पाः आचाराः ते चात्रेन्द्रसमानिक-त्रायस्त्रिंशदादिव्यवस्थारूपाः, तान् प्रतिपन्नाः कल्पोपपन्नाः, ते च ते देवाश्च कल्पोपपन्नदेवा वैमानिकविशेषास्तेषामेते लोका इत्यर्थः । तदुपरीति द्वादशदेवलोकोपरीत्यर्थः, नव ग्रैवेयका इति । लोकपुरुषस्य ग्रीवाप्रदेशे भवा ग्रैवेयकास्ते नव यथागमं व्यवस्थितास्सुदर्शनादि-शब्दवाच्या नवविधा इत्यर्थः । तदुपरीति ग्रैवेयकोपरीत्यर्थः । अभ्युदयविघ्नहेतूनां जयात्, कर्मणां विजितप्रायतयोपस्थितपरमकल्याणत्वाद्वा प्रतनुकर्मपटलावच्छिन्ना विजयवैजयन्त-जयन्ताः, अभ्युदयविघ्नहेतुभिर्न पराजिताः क्षुधादिभिर्वा न पराजिता अपराजिताः, सांसारिक सर्वकर्त्तव्यपरिसमाप्त्याऽनन्तरजन्मनि सकलकर्मक्षयलक्षणमोक्षस्य भावित्वेन सिद्धप्रायास्सर्वार्थ सिद्धा एतेषां विमानविशेषा अप्येतन्नामका एव । मूले तु विमानविशेषाणां नामान्यभिहितानि । अनुत्तरा इति, न विद्यन्ते उत्तराणि प्रधानानि विमानानि येभ्यस्तेऽनुत्तराः, देवलोका अपि अनुत्तरा उच्यन्त इति भावार्थः । विमानान्येतानि न
१. ये इन्द्रतुल्यतया द्युतिवैभवादिभ्यश्चरन्ति ते सामानिकाः, ये तु मंत्रिकल्पाः परस्परेण साहाय्यकारिण उदात्ताचारास्संसारभीरवो गृहपतयस्त्रयस्त्रिंशत्परिमाणास्त्रायस्त्रिंशाः कल्पयोर्देवाः सम्यग्द्दष्टयोऽपि मिथ्याद्दष्टयोऽपि सम्यमथ्याद्दष्टयोऽपि, अनुत्तरोपपातिनस्तु सम्यग्द्दष्टय एव, विमानाधिपतयस्तु सम्यग्द्दष्टय एव, सुलभबोधिताहेतुतीर्थकृदाशातनापरिहारान्यथानुपपत्तेः । सामानिकदेवा न विमानाधिपतयः, देवीनामिव मूलविमानैकदेश एव तदुत्पत्तियोग्यं स्थानम् । जिनजन्मोत्सवादौ तेषां सिंहासनानां शक्रविमाने मण्डितत्वात् । शक्राग्रमहिषीसिंहासनमण्डनवदिति बोध्यम् ॥