________________
५००
तत्त्वन्यायविभाकरे अतिशोभनत्वेन तस्या एव प्रथमं निर्दिदिक्षया क्रममुल्लंघ्यावसर्पिण्वेवादौ विभक्ता । सुषमसुषमेति । शोभनास्समा वर्षा यत्रेति सुषमा, अत्यन्तसुषमत्वाद्वीप्सया सुषमसुषमेति । सर्वथा दुष्षमानुभावरहित एकान्तसुषमारूपो सागरोपमचतुष्कोटीकोटिरूपोऽयं कालः । सुषमेति । सागरोपमाणां कोटीकोटित्रयात्मिका सुषमसुषमापेक्षया हानिमती बोध्या । सुषमदुष्षमेति । दुष्टास्समा यत्र सा दुष्षमा, सुषमा चासौ दुष्षमा चेति विग्रहः । सुषमानुभावबहुलाऽल्पदुष्षमानुभावा सागरोपमाणां कोटीकोटिद्वयप्रमाणाऽवसेया । दुष्षमसुषमेति, दुष्षमा चासौ सुषमा चेति कर्मधारयः, दुष्षमानुभावबहुलाऽल्पसुषमानुभावा द्विचत्वारिंशद्वर्षसहस्रन्यूनैकसागरोपमकोटीकोटिप्रमाणा भवति । दुष्षमेति । इयमेकविंशतिवर्षसहस्रमाना दुष्षमानुभावा । दुष्षमदुष्षमेति । अस्या अपि मानमेकविंशतिवर्षसहस्राणि, सर्वथा सुषमानुभावरहिताऽतिदुष्षमानुभावा चेति षड्भागा अवसर्पिण्या द्रष्टव्याः । अत्र सुषमसुषमायां मनुष्याणां गव्यूतत्रितयं शरीरोच्छ्रायस्त्रीणि च पल्योपमान्यायुः शुभपरिणामोऽपि कल्पवृक्षादिरनेकश्च, तत एषां परतो भागेष्वनन्तगुणा परिहाणिः, सुषमायां गव्यूतद्वयं समुच्छ्राय: पल्योपमद्वयमायुः कल्पवृक्षादिश्च । सुषमदुष्षमायामेकगव्यूतसमुच्छ्राय एकपल्योपमायुः कल्पवृक्षादिः । दुष्षमसुषमायां पूर्वकोट्यायुः पंशशतधनुस्समुच्छ्रायः दुष्षमायां दुःषमदुष्षमायाञ्चानियतं शरीरोच्छायादिः, तथाप्येवं भण्यते दुष्षमायान्तु प्रारम्भे वर्षशतमायुः सप्तहस्तसमुच्छ्रायः, दुःषमदुष्षमायां पर्यन्ते तु हस्तप्रमाणं वपुः षोडशवर्षाणि परमायुर्निरवशेषौषधिपरिहाणिश्चेति बोध्यम् । उत्सर्पिण्यामपि त एव भागास्तावन्मानास्तत्स्वरूपाः पूर्वोदितक्रमविपरीतक्रमा भवन्तीत्यभिप्रायत आहोत्सर्पिण्यामिति । एवञ्च विंशतिसूक्ष्माद्धासागरोपमकोटीकोटीप्रमाणद्वादशारकरूपमवसर्पिण्युत्सर्पिण्योः कालचक्रं पञ्चसु भरतेषु पञ्चस्वैरवतेषु चानाद्यनन्तं परिवर्तते । कुरुषु तु सुषमसुषमातुल्यः कालः, हरिरम्यकेषु सुषमातुल्यः, हैमवतैरण्यवतेषु सुषमदुष्षमानिभः, षट्पञ्चाशदन्तरद्वीपसहितपञ्चविदेहक्षेत्रेषु दुष्षमसुषमासदृश इति दिक् ॥
____१. ननूच्चत्वं शरीरस्य स्वावगाढमूलक्षेत्रादुपरितननभःप्रदेशावगाहित्वं, तत्पर्यवा असंख्याता एवेति कथमनंतभागपरिहाणिः, एवमायुषः पर्यवा एकसमयोनादिरूपा असंख्याता एव, आयुःस्थितेरसंख्यातसमयात्मकत्वात्कथमनन्तैरायुःपर्यवैर्हानिः, उच्यते, प्रथमारके प्रथमसमयोत्पन्नमुत्कृष्टं शरीरोच्चत्वं भवति, ततो द्वितीयादिसमयोत्पन्नानां यावतामेकनभःप्रर्तरावगाहिलक्षणपर्यवाणां हानिस्तावत्पुद्गलानन्तकं हीयमानं द्रष्टव्यमाधारहानावाधेयहानेरावश्यकत्वात्, तेनोच्चपर्यवाणामप्यनन्तत्वं सिद्धं, नभःप्रतरावगाहस्य पुद्गलोपचयसाध्यत्वात्, एवं प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतान्यनन्तान्यायुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानौ कार्यहानेरावश्यकत्वात्तानि च भवस्थितिकारणत्वादायुःपर्यवा एव, अतस्तेऽनन्ता इति ॥