________________
४८८
तत्त्वन्यायविभाकरे रागद्वार इति । सामायिकादीति । सामायिकच्छेदोपस्थापनीयपरिहारविशुद्धिकसूक्ष्मसम्परायसंयतास्सरागा एव सकषाया एवेत्यर्थः । अराग एवेति, अकषाय एवेत्यर्थः, उपशान्तकषायवीतरागः क्षीणकषायवीतरागश्चेति भावः ॥ ....
(3) रागवारભાવાર્થ - “રાગદ્વારમાં સામાયિક આદિ ચાર (૪) સંયતો સરાગ જ છે. યથાખ્યાત સયતો રાગ वरना ४ छ. ति.
मनुवाद - 'सामायि माहि' ति समयि संयत, परिरविशुद्धि संयत, सूक्ष्मसं५२।य संयतઅને છેદોપસ્થાપનીય સંયત રૂપ ચાર (૪) સંતો સરાગ જ એટલે સકષાય, એમ અર્થ જાણવો.
અરાગ એટલે કષાય વગરના જ-ઉપશાન્તકષાય રૂપ વીતરાગ અને ક્ષીણકષાયરૂપ વીતરાગ, એવો माक्छे.
कल्पद्वारमाह
कल्पद्वारे-सामायिकसूक्ष्मसम्पराययथाख्याताः स्थितकल्पेऽस्थितकल्पे च, छेदोपस्थापनीयस्स्थितकल्प एव भवेत् । परिहारविशुद्धिकोऽपीदृश एव । अस्थितकल्पो मध्यमतीर्थकरतीर्थेषु विदेहे चेति ॥अथवा सामायिको जिनकल्पस्थविरकल्पकल्पातीतेषु भवेत् छेदोपस्थापनीयपरिहारविशुद्धियो न कल्पातीते । सूक्ष्मसम्पराययथाख्यातौ तु कल्पातीत एव स्याताम् । ५१ ।
कल्पद्वार इति । दशविधसाधुसमाचारः कल्पः, स च सततं प्रथमचरमजिनसाधुभिरवश्यमासेव्यते, अतस्सततासेव्यमानस्स कल्पः स्थितकल्पः । साधुसमाचारेषु दशस्वाद्याश्चत्वारो नियतं मध्यमजिनसाधुभिरासेव्यन्ते नेतरे, इत्यस्थितकल्पा उच्यन्ते । सामायिक इति, एषां चतुर्विंशतितीर्थंकरतीर्थेषु सत्त्वेनैते स्थितकल्पेऽस्थितकल्पे च भवन्तीति भावः । छेदोपस्थापनीय इति । छेदोपस्थापनीयपरिहारविशुद्धिकयोस्तु महाविदेहे मध्यमतीर्थकरतीर्थेषु चासत्त्वेनास्थितकल्पस्य चात्रैव भावात् स्थितकल्प एव तौ भवत इति भावः । ईदृश एव स्थितकल्पवृत्तिरेवेत्यर्थः ॥ कल्पस्य जिनकल्पस्थविरकल्परूपेण द्वैविध्यात्तमप्याश्रित्याहअथवेति । कल्पातीतः, जिनकल्पस्थविरकल्पाभ्यामन्य इत्यर्थः, छेदोपस्थापनीयेति ।
१. कालस्वभावात्साधवस्त्रिविधपरिणामिनः, तत्राद्यसाधव ऋजुजडा अन्त्यसाधवो वक्रजडा मध्यमास्तु ऋजुप्राज्ञाः, तत्र ऋजुजडा यावन्मानं परिस्फुटेन वचसा वार्यते तावन्मात्रमेवैते वर्जयन्ति न सामर्थ्यलब्धमिति तेषां दशधा समाचार आज्ञप्तः, अंत्यसाधवश्च वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि न कथयन्ति नालोचयन्ति चेति एषामपि दशधा समाचार आज्ञप्तः, तथाविधसामग्रीसमवधान एवैते तथा प्रवर्त्तन्ते न स्वतः, तथा चरणं न घन्ति. मध्यमास्तु रहस्यपि यत्प्रतिसेवितं तदवभ्यमालोचयन्ति, तज्जातीयानर्थांञ्चाभ्यूह्य वर्जयन्ति, अतस्तेषां चतुर्षु नियमः कृत इति ॥