________________
सूत्र - ४२, सप्तमः किरणः
४७५
लक्षकमेतत, सर्वैव क्रिया हि साधोररक्तद्विष्टस्य निर्जरफलैव भवति । समाय एवेति विग्रहे स्वार्थे विनयादित्वाट्ठक्प्रत्यये सामायिकशब्दनिष्पत्तिः । सर्वसावद्ययोगविरतिस्वरूपमेव सामायिकं, विशुद्धतराध्यवसायविशेषविशिष्टा तादृशविरतिरेव छेदोपस्थापनादिः । न च निवृत्तिपरत्वात्सामायिकस्य गुप्तित्वप्रसङ्ग इति वाच्यम्, योगप्रवृत्तरत्र सद्भावात्, न च प्रवृत्तिरूपत्वे समितित्वप्रसङ्ग इति वाच्यम् सामायिके चारित्रे, यतत एव समितिषु प्रवृत्त्युपदेशेन तत्कारणरूपत्वात् । तद्विभजते तदिति । अथेत्वरकालं लक्षयति भाविव्यपदेशयोग्यमिति । भाविव्यपदेशयोग्यत्वे सति स्वल्पकालचारित्रत्वं लक्षणम् । प्रव्रज्याप्रतिपत्त्यनन्तरमधीतशस्त्रप्ररिज्ञाध्ययनादेश्छेदोपस्थाप्यसंयमारोपणे क्रियमाणे सामायिकव्यपदेशविगमादिति भावः । छेदोपस्थापनादिवारणाय सत्यन्तम्, तथा च स्वल्पकालेति इत्वरशब्दार्थवर्णनपरमेव, न तु व्यावर्त्तकम् । इत्वरकालसंयतस्य छेदोपस्थाप्यचारित्रग्रहणादर्वाङ् मृतस्य चारित्रेऽव्याप्तिवारणाय योग्येति । क्वेदं चारित्रं भवतीत्यत्राह-प्रथमेति । यावज्जीवकालमाह-भाविव्यपदेशेति । इत्वरस्य हि भाविव्यपदेश उक्तो नेतरेषाम् । यस्तु भाविव्यपदेशं नाश्नुते यावज्जीवञ्च भवति स संयमो यावज्जीवकालिक इति भावः । सामायिक एव सन् चतुर्यामं चतुर्महाव्रतानि मनोवाक्कायैर्यः पालयन् यावज्जीवं वर्तते स यावज्जीवकालिकसामायिकसंयत इति यावत् । प्रव्रज्याप्रतिपत्तिकालादारभ्याऽऽप्राणप्रयाणकालमवतिष्ठत एवम्भूतं चारित्रमिति भावः, यथाख्यातस्यापि भाविव्यपदेशाभावेन यावज्जीवं संयमरूपत्वात्तद्व्युदासाय सामायिकत्वं वाच्यम्, सामायिकत्वं सामायिकपदव्यपदेशयोग्यत्वमित्यर्थस्तेन तस्यापि विशद्धिविशेषविशिष्टनिरुक्तसामायिकत्वेऽपि न क्षतिः । केषामयं संयम इत्यत्राह इदञ्चेति । एषामुपस्थापनाया अभावादिति भावः ॥
હવે સામાયિકનું લક્ષણ કહે છેભાવાર્થ - છેદો પસ્થાપન આદિ રૂપ (૪) ચારથી ભિન્ન સર્વ સાવઘયોગથી વિરતિ, તે સામાયિક કહેવાય છે. તે ઇત્વરકાળવાળું અને જાવજજીવના કાળવાળું-એમ બે પ્રકારવાળું છે.
ઇત્વરકાળવાળું ભાવિ વ્યપદેશ(વ્યવહાર)ને યોગ્ય સ્વલ્પ કાળવાળું ઇત્વરકાળ ‘ચારિત્ર કહેવાય છે.
१. भाविव्यपदेशयोग्यताविशिष्टचारित्रस्यैवोपस्थापनायां त्यागो न चारित्रस्य, तस्येदानी विशुद्धतया तत्र सत्त्वात्, तेन व्रतग्रहणकाले सामायिकं यावज्जीवं करोमीतीत्वरसामायिकस्य गृहीतत्वेऽपि उपस्थापनायां मुञ्चतोऽपि न प्रतिज्ञालोपः, तस्यान्यथात्वाभावादित्याशयेन सामायिकव्यपदेशविगमादित्युक्तम्, इत्वरसामायिकव्यपदेशविगमादिति भावः, तस्यैव प्रकृतत्वादिति ॥