________________
४३१
सूत्र - २७, सप्तमः किरणः उपशमश्रेणिद्वारा समायातस्योपशान्तसंज्वलनलोभस्य प्राप्यं गुणस्थानमेकादशमाह
उपशमश्रेण्या सर्वकषायामुदयायोग्यतया व्यवस्थापनस्थानमुपशान्तमोहगुणस्थानम् । अत्राष्टाविंशतिमोहनीयप्रकृतीनामुपशमो भवति, उपशान्तमोहस्तूत्कर्षेणाऽन्तर्मुहूर्त्तकालमत्र तिष्ठति । तत ऊर्ध्वं नियमादसौ प्रतिपतति । चतुर्वारं भवत्यासंसारमेषा श्रेणिः । २७ ।
उपशमश्रेण्येति । उपशमश्रेण्या सर्वेषां क्रोधादीनां कषायाणां विद्यमानानामपि भस्मच्छन्नाग्निरिव संक्रमणोद्वर्तनादिकरणायोग्यतया यत्र व्यवस्थापनं तादृशमुपशान्तमोहगुणस्थानमित्यर्थः, इदमेव चोपशान्तकषायवीतरागच्छद्मस्थगुणस्थानमित्यप्युच्यते, क्रोधमानमायालोभोदयविगमात्, ज्ञानावरणीयादिघातिकर्मोदयावस्थानाच्च । सूक्ष्मस्यापि संज्वलनलोभस्य सर्वथोपशमनादष्टाविंशतिमोहनीयप्रकृतीनामुपशमो जात इत्याशयेनाह-अत्रेति । एतद्गुणस्थान उपशमयितुस्स्थितिकालनियममाह-उपशान्तमोहस्त्विति । जघन्येनैकस्समय इत्यपि बोध्यम् । अन्तर्मुहूर्त्तानन्तरमसौ क्व यातीत्यत्राह-तत ऊर्ध्वमिति । उपशान्तस्यावश्यमुदयनियमेनोदिते च चारित्रमोहनीये च्यवत्येवेति भावः । ननूपशमश्रेणिरेकेनासंसारं कतिवारं कर्तुं शक्यत इत्यत्राह-चतुर्वारमिति । एकस्मिन् भवे तूत्कर्षतो द्वौ वारावुपशमश्रेणि प्रतिपद्यते परन्तु तस्य नियमेन तस्मिन् भवे न क्षपकश्रेणिः, यस्त्वेकवारमुपशमश्रेणि प्रतिपद्यते तस्य क्षपकश्रेणिर्भवेदपि, आगमाभिप्रायेण तु एकस्मिन् भवे एकामेव श्रेणि प्रतिपद्यत इति ध्येयम् । ननूपशमश्रेणिमविरतादय एवारभन्ते ते च यथासम्भवं मिथ्यात्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणानामुपशमाद्भवन्ति, अन्यथा तेषामुदये सम्यक्त्वादिलाभ एव न स्यात् ततः कथमिदानीमुपशमस्तेषामुच्यत इति चेन्न पूर्वं हि तेषां क्षयोपशम एवासीत् नोपशमस्तत इदानीमुपशमः क्रियते । ननु क्षयोपशमोऽप्युदिते कर्माशे क्षीणेऽनुदितेचोपशान्ते भवति उपशमोऽपि चैवम्भूत इति तयोर्विशेषाभाव इति चेन्न क्षयोपशमे तदावारकस्य कर्मणः प्रदेशतोऽनुभवनात्, उपशमे तु सर्वथा तदभावात्, ननु यदि सत्यपि क्षयोपशमे मिथ्यात्वानन्तानुबन्ध्यादिकषायाणां प्रदेशानुभवोऽस्ति तहि कथं न सम्यक्त्वादिगुणविघातः, तदुदये नियमेन सतोऽपि सम्यक्त्वादेरपगमात्, यथा सास्वादनसम्यग्दृष्टेरिति चेन्न प्रदेशानुभवस्य मन्दानुभावत्वात्, मन्दानुभावो ह्युदयो न स्वावार्यगुणविघातमाधातुमलम्, यथा चतुर्जानिनो मतिज्ञानावरणादीनां विपाकतोऽप्युदयः । तथाहि मतिज्ञानावरणादिकं कर्म ध्रुवोदयं ध्रुवोदयत्वाच्चाऽवश्यं विपाकतोऽनुभवनीयं, विपाकानुभवापेक्षयैव ध्रुवोदयत्वा