________________
मंगलाचरण
ચોખા, મંગલ કુંભ વગેરે રૂપ દ્રવ્ય આદિ મંગલો)ને છોડીને એકાન્તિક-આત્યંતિક રૂપે ઇષ્ટ કાર્ય પ્રત્યે સાધનમાં સમર્થ હોઈ ભાવમંગલ પૂજ્ય તરીકે પ્રસિદ્ધ છે.
જો કે તપશ્ચર્યા વગેરે અનેક પ્રકારના ભાવમંગલો શ્રી જૈનશાસનમાં હોવા છતાં, શ્રી અરિહંતના નમસ્કાર રૂપ ભાવમંગલ વિશેષથી “અરિહંતામંગલ' એવી પ્રસિદ્ધિ હોવાથી ઉપાદેય છે. એથી નોઆગમથી ભાવમંગલ રૂપ (પ્રભુનમસ્કારના ઉલ્લેખક-વાચક કે શ્રોતાઓને તેના અર્થના ઉપયોગ પરિણામના સદ્ભાવથી ભાવપણું છે. નમસ્કાર ક્રિયા કરનારાની ક્રિયાનું નોઆગમપણું હોવાથી નોઆગમથી ભાવમંગલરૂપ) પ્રભુવિષયક નમસ્કારને પ્રારંભમાં ગ્રંથનિબદ્ધ કરે છે. भक्त्युद्रेकनमत्सुराधिपशिरःकोटीररत्नप्रभा
द्योतिस्मेरपदाम्बुजं निरुपमज्ञानप्रभाभासुरम् । रागद्वेषतृणालिपावकनिभं वाणीसुधाम्भोनिधि,
श्रीमद्वीरजिनेश्वरं प्रतिदिनं वन्दे जगद्वल्लभम् ॥१॥ भक्त्युद्रेकेति । भक्तिः-आराध्यत्वेन ज्ञानं, आराधना च गौरवितप्रीतिहेतुः क्रिया । तस्या उद्रेकोऽतिशयेनाविर्भावः, तेन नमन्तो ये सुराधिपा इन्द्रादयः, तेषां शिरसां कोटीरेषु-मुकुटेषु यानि रत्नानि तेषां प्रभाणां द्योतनशीलं स्मेरं-विकसितं पदाम्बुजं यस्य तं, अनेन प्रभोः पूजातिशयः प्रकाशितः । तथा निरुपममतुलमनन्तमिति यावत्, तच्च तज्ज्ञानञ्च, तदेव प्रभा साकल्येनाखिलपदार्थप्रद्योतकत्वात्, तया भासुरं-जाज्वल्यमानं, अनेन ज्ञानातिशयो दशितः । तथा रागः-अभिष्वङ्गः, द्वेषः-अप्रीतिः, तावेव तृणालिस्तृणव्रजः, रागद्वेषयोरतितुच्छत्वेन तृणतया रूपणम्, तस्मै पावकनिभः-हुताशनसंकाशस्तं, अनेनापायापगमातिशय उद्भावितः । एवं पञ्चत्रिंशद्गुणालडकृता वाण्येव निरन्तरानन्दप्रदत्वात्सुधा तस्या अम्भोनिधिरुत्पत्तिभूमिस्तम्, अनेन वागतिशय उक्तः, चतुस्त्रिंशदतिशयात्मिका भावार्हन्त्यरूपा कृत्स्नकर्मक्षयाविर्भूतानन्तचतुष्कसम्पद्रूपा वा श्रीस्समृद्धिरस्यास्तीति श्रीमान् नित्ययोगे मतुप्, विशेषेणेरयति-क्षिपति कर्माणीति वीरः, तपसा विराजमानत्वात् तपोवीर्येण युक्तत्वाद्वा वीरश्चतुर्विंशतितमतीर्थकृत, यद्यपि निरुक्तव्युत्पत्त्या वीरपदेन तीर्थकर सामान्योपस्थितिसम्भवः, तथापि योगाढिर्बलवतीति न्यायाद्व्यक्तिविशेष एव विवक्षितः, निश्चयनयेनैकभक्तौ सकलभक्तिसिद्धेः, आसन्नोपकारित्वेनास्यैव तात्पर्यविषयत्वाच्च, स चासौ जिनेश्वरस्सामान्यकेवलिनामपीश्वरस्तं, स्वस्यापि भक्त्युद्रेकं दर्शयति प्रतिदिनं वन्द इति, वन्दे-स्तौमि, अभिवादये च, केवलानां स्तुतिबोधकानां नमस्कारबोधकानां वा धातूनामनुपादानात् । जगतं वल्लभो जगद्वल्लभस्तं सकलचराचरोपकारित्वादिति भावः ॥