________________
३४८
तत्त्वन्यायविभाकरे
૦ તેમજ ૩-સૂક્ષ્મત્રિક, ૪-આતપ અને પ-મિથ્યત્વના ઉદયનો વ્યવચ્છેદક હોવાથી, ૬-નરક આનુપૂર્વીના ઉદયનો અભાવ હોવાથી ૧૧૧ કર્મપ્રકૃતિઓના ઉદયવાળો છે.
૦ શ્રી તીર્થંકરનામકર્મની સત્તાનો અસંભવ હોવાથી ૧૪૭ કર્મપ્રકૃતિઓની સત્તાવાળો હોય છે. સભ્યમિથ્યાર્દષ્ટિ જેનું બીજું નામ છે, એવું ત્રીજું મિશ્રગુણસ્થાન
तृतीयं मिश्रगुणस्थानं सम्यङ्मिथ्यादृष्टिगुणस्थानापराभिधं निरूपयति—
मिश्रमोहनीयकर्मोदयादन्तर्मुहूर्त्तस्थितिकोऽर्हदुदिततत्त्वेषु द्वेषाभावो मिश्रगुणस्थानम् । यथान्नापरिचितनारिकेलद्वीपनिवासिमनुजस्यान्ने । अत्र जीवो नायुर्बध्नाति न वा म्रियते । अपि तु सम्यक्त्वं मिथ्यात्वं वाऽवश्यं याति । १५ ।
मिश्रेति । मिश्रमोहनीयकर्मोदयाद्दर्शनमोहनीयप्रकृतिविशेषोदयात् जीवेऽन्तर्मुहूर्त्तकालं लब्धौपशमिकसम्यक्त्वेन मिथ्यात्वमोहनीयं कर्म शोधयित्वा कृतत्रिपुञ्जमध्येऽर्धविशुद्धपुञ्जोदयतोऽर्धविशुद्धं यत्समतया सम्यक्त्वं मिथ्यात्वञ्च भवेद्येन नार्हदुदिततत्त्वेषु कश्चन द्वेषो न वा प्रीतिस्तन्मिश्रगुणस्थानमित्यर्थः, मिश्रत्वञ्चाऽस्योभयभावयोरेकरूपत्वात्, जात्यन्तरमेतत् बडवाखरयोस्संयोगेन जातस्य जात्यन्तराश्वतरवत्, दधिगुडसंयोगेन रसविशेषवच्च । समतायां निदर्शनमाह-यथेति । तस्य ह्यन्ने न द्वेषो न वा प्रीतिस्तद्वदिदमिति भावः । गुणस्थानेऽत्र जीवः किं करोतीत्यत्राह - अत्रेति । अस्मिन् गुणस्थान इत्यर्थः । तत्र हेतुमाहअपित्विति । अस्यान्तर्मुहूर्त्तस्थितिकत्वाद्भावान्तरगमनमावश्यकं तत्रैव चायुर्बन्धो मरणञ्चेति भावः एवं क्षीणमोहे सयोगिन्यपि न मरणसम्भवश्शेषाणि मरणयोग्यानि गुणस्थानानि, तत्रापि मिथ्यात्वसास्वादनाविरतसम्यग्दृष्टिरूपाणि गुणस्थानानि जीवेन सहोपयान्ति परभवं, नापराण्यष्टाविति बोध्यम् । अत्र मिथ्यात्ववत एव मिश्रगमनमिति सिद्धान्तमतम्, कार्मग्रन्थिकमते तु विहितविभागस्य सम्यक्त्ववतस्सम्यक्त्व प्रच्युतस्याष्टविंशतिसत्कर्मणो मिथ्यात्वनो वाऽर्धविशुद्धः पुञ्जो यदोदेति तदाऽर्धविशुद्धा भगवदर्हदुदिततत्त्वश्रद्धा जायत इत्यतस्सम्यक्त्वात्प्रच्युतस्यापि मिश्रगमनमिति ॥ एतद्गुणस्थानस्थो जीवश्चतुस्सप्ततेर्बन्धकः, तिर्यक्त्रकस्त्यानद्धित्रिकदुर्भगदुःस्वरानादेयानन्तानुबन्धिमध्याकृतिमध्यसंहननचतुष्कनीचैर्गोत्रोद्योता
प्रशस्तविहायोगतिस्त्रीवेदव्यवच्छेदान्मनुष्यदेवायुषोबन्धाच्च । वेदयिता शतस्य, मिश्रोदयाद्देवमनुष्यतिर्यगानुपूर्व्यनुदयादनन्तानुबन्धिस्थावरैकेन्द्रियविकलत्रिकोदयव्यवच्छेदाच्च । सप्तचत्वा
रिंशदुत्तरशतसत्ताकश्च भवति, तीर्थकृत्सत्ताभावात् ॥