________________
ॐ अर्हम्
देवाधिदेव श्री शांतिनाथाय नमः ॐ ॥ पू. आत्म-कमल-लब्धि-भुवनतिलक-भद्रंकरसूरीश्वरेभ्यो नमः ॥
जैनाचार्यश्रीमद्विजयलब्धिसूरीश्वरविरचितः ॥ तत्त्वन्यायविभाकरः ॥
स्वोपज्ञन्यायप्रकाशटीकायुतः
(गुजराती भावानुवाद) नयानेकवादप्रमाणप्रकाशं,
भुवि ज्ञानचारित्रदत्तावकाशम् । इलादुर्गरत्नं जिनं शान्तिनाथं, .
___नमामि प्रभाभासुरं भावतोऽहम् ॥१॥ प्राचां प्रौढनिगूढभावभरितान् वाचां विलासान् परान्,
___ शेमुष्या प्रविचार्य चारु गुरुभिर्दिष्टेन सद्वर्त्मना । तत्त्वन्यायविभाकरस्य कृतिनां मोदाय टीकामिमां,
कुर्वे मञ्जलयुक्तिजालजटिलां न्यायप्रकाशाभिधाम् ॥२॥ क्क स्याद्वादो महाम्भोधिरल्पशक्तिर्मतिः क्व मे ?।
बाहुना तं तितीर्षन्तं क्षमन्तां गुणवेदिनः ॥३॥