________________
३३८
तत्त्वन्यायविभाकरे पायसभुक्तवान्तस्य कञ्चन समयं क्षीरान्नरसस्वादानुवृत्तिरिव तस्य सम्यक्त्वरसानुवृत्तिर्भवति, एवम्भूततया तस्य यदवस्थानं तत्सास्वादनगुणस्थानं, सम्यक्त्वरसास्वादेन सह वर्तत इति सास्वादनस्तस्य गुणस्थानमिति व्युत्पत्तेरित्यर्थः । सासादनगुणस्थानं सासातनगुणस्थानञ्चेत्यस्यैव नामान्तरम् । तच्चेत्थमवसेयम्, संसारमाहासागरान्तःपतितो जीवो मिथ्यादर्शनमोहनीयनिदानानि यावदनन्तपुद्गलपरावर्ताननेकशारीरिकमानसिकदुःखलक्षाण्यनुभूय कथमपि भव्यत्वपरिपाकेनानाभोगनिवर्तितेनाध्यवसायविशेषेण यथाप्रवृत्तिकरणेनाऽऽयुर्वर्जानि ज्ञानावरणीयादिकर्माणि सर्वाण्यपि पल्योपमासंख्येयभागन्यूनैकसागरोपमकोटीकोटिस्थितानि करोति, अत्र चान्तरे गुरुतरकठोरतरुग्रन्थिवदुर्भेदः कर्मपरिणामजन्यो जीवस्य घनरागद्वेषपरिणामरूपोऽऽभिन्नपूर्वो ग्रन्थिर्भवति, यथाप्रवृत्तिकरणेन कर्म क्षपयित्वा ग्रन्थिमिमां यावदभव्याअप्यनेकशः समागच्छन्ति । ततो ग्रन्थिभेदविधानासमर्थाः पुनरपि कर्माण्युत्कृष्टस्थितिकानि संक्लेशवशा बध्नन्ति । यः पुनर्महात्मा कश्चिदासन्ननिर्वृतिसुखो दुर्धर्षवीर्यवानपूर्वकरणस्वरूपेण परमविशुद्धिविशेषेण विधाय भेदं तद्ग्रन्थेः मिथ्यात्वमोहनीयकर्मस्थितेरन्तर्मुहूर्तमुदयक्षमादुपरि गत्वाऽनिवृत्तिकरणसंज्ञितेनान्तर्मुहूर्त्तकालमानं तत्प्रदेशवेद्यदलिकान्तर्मुहर्तमानाऽन्तरकरणादधस्तनी प्रथमा, तत उपरितनी द्वितीया, तत्र प्रथमस्थितौ मिथ्यादृष्टिरेव, मिथ्यात्वदलिकवेदनात्, अन्तर्मुहूर्तेनापगतायाञ्च तस्यामन्तरकरणस्याद्य एव समये औपशमिकं सम्यक्त्वमवाप्नोति, मिथ्यात्वदलिकवेदनाभावात् । तस्याञ्चोपशान्ताद्धायामान्तर्मोहूतिक्यां जघन्येन समयशेषायामुत्कर्षेण षडावलिकाशेषायां कस्यचित्पुंसः केनचिन्निमित्तविशेषेणानन्तानुबन्ध्युदयो भवति, तदानीमसौ सास्वादनगुणस्थाने वर्तते, उपशमश्रेणिप्रतिपतितो वा सास्वादनत्वं यातीति कार्मग्रन्थिकमतम्, सिद्धान्तमते तु श्रेण्यास्समाप्तौ प्रतिपततः प्रमत्तगुणस्थानेऽप्रमत्तगुणस्थाने वाऽवतिष्ठते, कालगतस्तु देवेष्वविरतो भवतीति । सास्वादनोत्तरकालञ्चाऽवश्यं मिथ्यात्वोदयादयं मिथ्यादृष्टिर्भवतीति । स कियन्तं कालमस्मिन् गुणस्थाने वर्तत इत्यत्राह-समयादीति । जघन्येनैकः समय उत्कर्षेण षडावलिकाप्रमाणं, तत ऊर्ध्वं मिथ्यात्वोपगमात्, आवलिका चाऽसंख्यातसमयसमुदायरूपेति भावः ॥
બીજા ગુણસ્થાનના સ્વરૂપનું વર્ણનભાવાર્થ - મિથ્યાત્વને નહિ પામેલ, ઔપશમિક સમકિતથી પડતા જીવનું જે સર્વથા સમ્યકત્વના અપરિત્યાગ રૂપે રહેવું, તે “સાસ્વાદન ગુણસ્થાન.” આ જઘન્યથી સમય અને ઉત્કૃષ્ટતાથી છ આવલિકા સુધીનું છે.