________________
सूत्र - ७-८, सप्तमः किरणः
३३३
मिथ्यात्वगुणेति । मिथ्यात्वं व्यक्ताव्यक्तभेदभिन्नं विपर्यस्तदृष्टिरूपं, तास्थ्यात्तव्यपदेश इति न्यायेन तद्योगाज्जीवोऽपि मिथ्यात्वं, अर्शाद्यजन्तेन वा मिथ्यात्वः, मिथ्यात्ववानित्यर्थः । तस्य यो गुणानां ज्ञानादीनां शुद्ध्यशुद्धिप्रकर्षाप्रकर्षकृतः स्वरूपविशेषः तदात्मकं स्थानं मिथ्यात्वगुणस्थानमित्यर्थः । अस्य संज्ञिपञ्चेन्द्रियतद्भिन्नजीवसम्बन्धित्वेन द्वैविध्यमित्याशयेनाह-व्यक्ताव्यक्तभेदेनेति । व्यक्ताव्यक्तहेतुनेत्यर्थः । तथा च व्यक्तमिथ्यात्ववतोऽव्यक्तमिथ्यात्ववतश्चेति तद्विविधमिति भावः । तत्र किंव्यक्तमिथ्यात्वं तदाह-कुदेवेति । देवगुरुधर्माभासरूपेषु देवगुरुधर्मबुद्धिरित्यर्थः, तेन यद्येषां कुत्सितत्वं तर्हि कथं देवगुरुधर्मशब्दप्रयोग इति शङ्का परास्ता । उपलक्षणमेतत् तेन जिनोपदिष्टजीवादिपदार्थेषु अश्रद्धा मिथ्याश्रद्धा विपरीतप्ररूपणा संशयकरणमनादरश्च गृह्यन्ते । तथाऽधर्मधर्मोन्मार्गमार्गाजीवजीवासाधुसाध्वमूर्तमूर्तेषु दशसु धर्माधर्ममार्गोन्मार्गजीवाजीवसाध्वसाधुमूर्तामूर्तसंज्ञानां, आभिग्रहिकानाभिग्रहिकाभिनिवेशिकसांशयिकानाञ्च मिथ्यात्वानां ग्रहणम् । अनाभोगिकं च मिथ्यात्वमव्यक्तमिथ्यात्ववत एवेति ध्येयम् । केषां व्यक्तमिथ्यात्वमित्यत्राहइदञ्चेति । एवपदेनैकद्वित्रिचतुरसंज्ञिपञ्चेन्द्रियाणां व्यवच्छेदः, तत्र व्यक्तमिथ्यात्वक्रियाया अभावात् । ननु ज्ञानदर्शनचारित्रात्मका हि गुणाः, ज्ञानादीनां विपर्यासेन मिथ्यादृष्टौ कथं गुणस्थानसम्भव इति चेदुच्यते, तत्त्वेष्वास्थारूपजीवगुणस्य सर्वतो भावेन घातिनो मिथ्यात्वमोहनीयस्य विपाकोदयतो वस्तुप्रतिपत्तिरूपा दृष्टिर्यद्यपि विपर्यस्ता तथापि काचिन्मनुष्यपश्वादिप्रतिपत्तिरन्ततो निगोदावस्थायामपि तथाभूताव्यक्तस्पर्शमात्रप्रतिपत्तिरविपर्यस्ता भवति चन्द्रप्रभाकरप्रभायां सघनघनपटलसमाच्छादितायामपि काचित्प्रभेव । नहि तयोः प्रभा नूतनजलधरघनपटलेनैकान्तेन तिरस्कृता विनश्यति, दिनरजनिविभागाभावप्रसङ्गात् । तथा प्रबलमिथ्यादर्शनकर्मोदयेऽपि काचिदविपर्यस्ता दृष्टिर्भवतीत्येतदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भव उक्तः । न च कथमसौ मिथ्यादृष्टिरेव, कथंचिदविपर्यस्तप्रतिपत्त्यपेक्षया सम्यग्दृष्टित्वादिति वाच्यम्, जिनोदितैकाक्षरेऽप्यनादरे मिथ्यादृष्टित्वेनाप्रतिपन्नतत्त्वानामेषां सुतरां मिथ्यादृष्टित्वात् । न च जिनोदितसकलपदार्थाभिरोचनात्कतियपदार्थानामरोचनाच्च सम्यड्मिथ्यादृष्टिरेवायमिति वाच्यम् । एकस्मिन्नपि वस्तुनि पर्याये वा एकान्तेन विप्रतिपत्तिं प्रतिपन्नस्यास्य मिथ्यादृष्टित्वात् । मतिदौर्बल्यादिना तत्रैकान्तेन सम्यक्परिज्ञानमिथ्यापरिज्ञानाभावत एकान्तेन श्रद्धानविप्रतिपत्त्यभाववत एव सम्यमिथ्यादृष्टित्वादिति विभावनीयम् ॥