________________
.३१२
तत्त्वन्यायविभाकरे आरम्भिकीमाचष्टेजीवाजीवभेदभिन्ना जीवाजीवघातात्मिका चेष्टाऽऽरम्भिकी । २१ ।
जीवाजीवेति । आरम्भः पृथिव्यादिकायोपघातलक्षणः शुष्कतृणादिच्छेदलेखनादिर्वा तत्र भवा क्रियाऽऽरम्भिकी । जीवेतरविषयेयम् । जीवमात्रस्य जीवेन स्वपरहस्तादिना अजीवेन दण्डादिना योऽयं घातः प्राणवियोगरूपः, तथाऽजीवस्यालेख्यादौ स्थापनाद्यात्मकचेतनावियुतस्य जीवेन स्वपररूपेणाजीवेन दण्डशस्त्रादिरूपेण योऽयं घात:-विनाशस्तदात्मिका क्रियेत्यर्थः । आषष्ठगुणस्थानमेषा ॥
आमिडीयाभावार्थ - ०१-मन मेथी युत ०१-अपघात ३५ येष्टर-या, ते 'मामिही.'
વિવેચન - આરંભ એટલે પૃથ્વીકાય આદિ જીવહિંસા રૂપ, અથવા ખેતી કરવી શુષ્ક ઘાસ વગેરે છેદવા, ચિત્ર ચીતરવાં આદિ રૂપ આરંભજન્ય ક્રિયા, તે “આરંભિકી.
આ આરંભિકી ક્રિયા જીવવિષય અને અજીવવિષય ભેદથી બે પ્રકારની છે.
(૧) જીવવિષય આરંભિક જીવ માત્રનો સ્વ-પરહસ્ત આદિ જીવ વડે અને દંડ આદિ રૂપ અજીવ વડે જ આ પ્રાણવિયોગ રૂપ ઘાત.
(૨) અજીવવિષય આરંભિક-અજીવનો, ચિત્ર આદિમાં સ્થાપના આદિ આત્મકઅચેતનનો સ્વ-પર રૂપ જીવ વડે, દંડ-શસ્ત્ર આદિ રૂપ અજીવ વડે જે આ વિનાશાત્મક ઘાત રૂપ ક્રિયા, એમ અર્થ સમજવો.
આ આરંભિકી ક્રિયા પ્રમાદજન્ય હોવાથી છઠ્ઠા ગુણસ્થાનક સુધી છે. पारिग्रहिकीमभिधत्तेजीवाजीवविषयिणी मूर्छानिवृत्ता क्रिया पारिग्रहिकी । २२ ।
जीवाजीवेति । जीवाजीवविषयकमू»निर्वृत्तक्रियात्वं लक्षणम् । विविधोपायैरोंपार्जनरक्षणमू»परिणामः परिग्रहस्तत्र भवा पारिग्रहिकी । इयञ्च जीवाजीवभेदेन द्विविधा । आपञ्चममसौ ॥
१. आरम्भिकीसत्त्वे पारिग्रहिक्यास्सत्त्वमसत्त्वं वा, अस्यास्सत्त्वेऽत्वारम्भिकी स्यादेव, आरंभिकीसत्त्वे नियमेन मायाप्रत्ययिकी स्यात्, वैपरीत्येन तु न नियमः । आरम्भिकीसत्त्वे मिथ्यादर्शनप्रत्ययिक्य प्रत्याख्यानिक्योर्न नियमः, वैपरीत्येन त नियमः ॥
२. पारिग्रहीकीसत्त्वे आरम्भिकीमायाप्रत्ययिक्योनियमेन सत्त्वम्, मिथ्यादर्शनप्रत्ययिक्यप्रत्याख्यानिक्योस्तु न नियमः । यस्य च मायाप्रत्ययिकी तस्य मिथ्यादर्शनप्रत्ययिकी, अप्रत्याख्यानिकी म्यान्नवा । अनयोश्च सत्त्वे मायाप्रत्ययिकी नियमतो वर्तते । अप्रत्याख्यानिकीसत्त्वे त मिथ्यादर्शनप्रत्ययिक्या एवानियमो बोध्यः ।।