________________
अथ चतुर्थः किरणः ॥ तदेवं जीवाजीवौ लक्षणप्रकाराभ्यां समासतोऽभिधाय क्रमायातं पुण्यतत्त्वं निरूपयितुं तल्लक्षणमाह
पौद्गलिकसुखोत्पत्तिजनकं कर्म पुण्यम् । पौद्गलिकमेतत् । १ । पौद्गलिकेति । पौद्गलिकसुखोत्पादहेतुत्वे सति कर्मत्वं लक्षणार्थः, पापेऽतिव्याप्ति वारणाय सत्यन्तं कालादिसमवायेऽतिप्रसङ्गभङ्गाय विशेष्यम् । मुक्तिसुखवारणाय पौद्गलिकेति सुखविशेषणम् । यदि मोक्षसुखजनके कर्मत्वाभावादेव नातिव्याप्तिरत: पौगलिकेति व्यर्थमित्युच्यते तदा पौगलिकसुखपदेनेष्टगतिजातिशरीरेन्द्रियविषयादयो विवक्षितास्तथा च शोभनगतिवर्णाद्यनुगुणं शुभानुभावञ्च पुण्यमिति फलितार्थः । ननु पश्वादयो देवदत्तगुणाकृष्टास्सन्तो देवदत्तमुपसर्पन्ति तम्प्रति नियमेनोपसर्पणाद् ग्रासादिवदिति ग्रासादेराकर्षणं यथा प्रयत्नेनात्मगुणेन भवति तथा पश्वादीनां देवदत्तात्मगुणाभ्यां धर्माधर्माभ्यां भवतीति न्यायादितंत्रान्तरीयैर्धर्माधर्मात्मकपुण्यपापयोरात्मगुणत्वाभ्युपगमादत्रापि किं पुण्यं गुणो वा पगलविशेषो वेति शंकायामाह-पौद्गलिकमेतदिति । एतत्पुण्यं पौद्गलिकं पुद्गल-परिणामत्वात्पौद्गलिकमित्यर्थः । पश्वादेराकर्षणं हि लोके रज्ज्वादिना संयोगेन दृष्टं, अदृष्टेन त्वेषामाकर्षणं कथं वा स्यान्न संयोगेन द्रव्ययोरेव संयोगाभ्युपगमात्, न समवायेन असिद्धः, नापि स्वाश्रयसंयोगेन, अदृष्टाश्रयस्यात्मनो विभुत्वस्याप्रमाणत्वेन पश्वादिना संयोगासंभवादिति भावः । ननु नास्त्येव पुण्यं पापं वा कर्म, कायाकारेण परिणतेभ्यो भूतेभ्य एव
१. आरोग्यचिरजीवित्वाढ्यत्वकामभोगसंतोषप्रव्रज्यामोक्षरूपेषु सुखेषु मोक्षमेव सर्वोत्तमं सुखम्, परेषां दुःखप्रतीकारमात्रत्वात् सुखाभिमानजनकत्वाच्च, तत्त्वतो न सुखमेतदेव च पौगलिकं सुखमिति भावः ॥