________________
सूत्र - १९, तृतीय किरणे
१४७
स्यान्नित्यमनित्यञ्चु सान्नित्योऽनित्यश्चमनित्यश्च । कार्यलिङ्गकश्चेति । अणूनामस्तित्वं कार्यलिङ्गादवसेयं, कार्यलिङ्गं हि कारणं, नासत्सु परमाणुषु शरीरेन्द्रियमहाभूतादिलक्षणस्य कार्यस्य प्रादुर्भावः । ननु सर्वान्तिम-कारणत्वेन परमाणोर्निरवयवत्वात्कथमणुकयोः संहतौ व्यणुकस्कन्धो जायते, संश्लेषासंभवात्, संश्लेषो हि तयोरेकदेशेन सर्वात्मना वा स्यात्, नाद्यः सावयवत्वापत्तेः, नान्त्यः सकलस्यापि जगत एकपरमाणुमात्रत्वापत्तेरिति चेन्न, अनेकवस्तुविषये निरवशेषाभिधायित्वेन प्रसिद्धस्य सर्वशब्दस्य द्रव्यात्मनैकस्मिन् परमाणौ प्रयोगासम्भवात् । एकदेशशब्दस्यापि नानात्वेन निश्चितस्य पदार्थस्य कस्यचिद्भागाभिधायिनो निर्भागपरमाणुविषये प्रयोगासंभवाच्च । स्वयं ह्यवयवभूतः परमाणुः परमाणुना सह भेदेन योगमायाति, न त्वण्वन्तरमाविशति, तस्य सक्रियत्वेन परमाणुस्थाकाश एवाऽऽवेशनात्, न च परमाणावनावेशे योगो न संभवति व्यङ्गुलवत् परस्परमनाश्लिष्टत्वादिति वाच्यम्, आवेशतो योग इत्यनुक्तेः किन्तु निरवयवत्वात्, तस्य च द्रव्यप्रदेशान्तरं न संयुक्तमपि तु स्वयमेवेति न कश्चिद्दोषः । अपि च योगस्सम्प्राप्तिलक्षणो न चासौ प्रदेशैरेव क्रियते, निष्प्रदेशस्यापि स्वयं प्राप्तौ विरोधाभावात् । एवं परमाणव एते प्रतिघातिनोऽप्रतिघातिनश्च तत्र प्रतिघातस्त्रिविधो बन्धलक्षण उपकाराभावलक्षणो वेगलक्षणश्चेति । बन्धपरिणामप्रतिघातःस्निग्धरुक्षत्वप्रयुक्त बन्धतः, लोकादन्यत्र जीवाजीवानां गतेः प्रतिघात उपकाराभावात्, आगच्छत वैस्रसिकवेगवता परमाणुना परमाणोः प्रतिघातो वेगात् वेगवतोरेवाण्वोः प्रतिघातात्, एकस्मिन्नेवाकाशप्रदेशेऽनन्तानामपि परमाणूनामवगाढत्वमप्रतिघातपरिणामात्, व्याप्तैकापवरके प्रदीपप्रभयेवान्यप्रदीपप्रभाणां, शीततमश्शब्दपुद्गलानामप्रतिघातित्वदर्शनात् । इत्थञ्च परिणामविशेषात्प्रतिघातित्वमप्रतिघातित्वञ्च सम्भवति पुद्गलेषु, यथा शब्दस्तावत् तिरस्कृतोऽपि कुड्यादिभिरप्रतिहन्यमानः श्रवणपथमभ्युपैति, स एव कदाचिदुह्यमानत्वाद्वायुना प्रतिहन्यते प्रतिवातस्थितेनानुपलभ्यमानत्वात्, अनुवातस्थितेनोपलभ्यमानत्वाच्चेति दिक् ॥
वे ५२भाशुने शवछ :ભાવાર્થ-તે પ્રદેશ જ સ્કંધમાંથી પૃથ થયેલો જો હોય, તો “પરમાણુ તરીકે વ્યવહારમાં આવે છે. આ પરમાણુ સર્વના અંતિમ કારણ તરીકે દ્રવ્યથી અજન્ય, કાર્ય રૂપી લિંગથી ગમ્ય-અનુમેય છે.
१. बन्धपरिणामोऽन्योऽन्याङ्गाङ्गिभावपरिणामः, न तु नैरन्तर्येण परस्परं संयोगमात्रं, तथा सति प्रतिघातो न स्यादेव । अनन्तानामपि परमाणूनां संयोगवृत्त्यैकस्मिन्नाकाशप्रदेशेऽप्रतिघातेन वृत्तेरिति भावः । २. एकस्मिन् परमाणौ कथं प्रतिघातित्वाप्रतिघातित्वे विरुद्धे स्त इत्याशंकायां सद्दष्टान्तमाहेत्थञ्चेति ।