SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ जैनरत्न-व्याख्यानवाचस्पति-श्रीलब्धिविजय गुणस्तुत्यष्टकम् "शार्दूलविक्रीडितम्।" जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्ध जनिः, मोती यज्जननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ १ ॥ नन्देष्वकधराप्रमे स्थितवति श्रीविक्रमाद्वत्सरे, दीक्षां संसृतिनाशिनीं तु कमलाचार्यस्य पार्श्वेऽग्रहीत् । संयम्याक्षकदंबकं प्रतिदिनं धत्ते च यः सन्मति, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ २॥ • व्याख्यारञ्जितचित्तवृत्तिरखिलः संघोऽनघश्चैडरो, व्याख्यागिष्पतिरित्यदात् पदमलं यस्मै यथार्थं किल । रात्रीनायकसप्तनन्दवसुधावर्षे शुभे वैक्रमे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ ३ ॥ दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतःस्थिति, जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दूज्ज्वलाम् । नानाशास्त्रसमुत्थयुक्तिनिवहै: प्रज्ञाजुषां संसदि, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ ४॥ भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नास्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः । पीत्वानन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥५॥ • यो दूरं विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते सदा सन्मतिम् । भक्त्या सद्गुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥६॥ अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधर-निर्घोषं विफलीकरोति वचसां घोषो महान् यस्य वै। • नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ ७ ॥ धीमास्तत्पदपद्मयुग्ममधुलिड वादीभकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिविज्ञानिचूडामणिः । विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ॥ ८॥ TO प्रशस्तिः "कृतकर्मविनाशाय वासाय शिवसद्मनः चतुरविजयेनैत-दकृताऽमलमष्टकम् ॥ ९॥" (रचयिता-मुनि चतुरविजय) RamdakoAmARAN
SR No.022495
Book TitleTattvanyaya Vibhakar Part 01
Original Sutra AuthorN/A
AuthorLabdhisuri, Bhadrankarsuri, Vikramsenvijay
PublisherLabdhibhuvan Jain Sahitya Sadan
Publication Year2013
Total Pages814
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy