________________
सूत्र - १०, तृतीय किरणे
१२७ स च वर्तमानस्वरूप एक एव । सोऽपि निश्चयव्यवहाराभ्यां द्विविधः । १० । __ स चेति । वर्तनया लक्ष्यमाणोऽद्धाकाल इत्यर्थः, न तु वर्तनास्वरूपात्मा कालः, तस्य जीवाजीवरूपत्वात् । एक एवेति वर्तमानैकसमयात्मक इत्यर्थः । अस्य द्वैविध्यमादर्शयति सोऽपीति । वर्तमानैकसमयात्माऽद्धाकालविशेष:-प्रमाणकालोऽपीत्यर्थः । नैश्चयिको व्यावहारिक श्चेति द्विविधः कालस्समयरूप इति भावः । अद्धाकालविशेष:-प्रमाणकालोऽतीतोऽनागतो वर्तमानश्चेति त्रिविधः । तत्र विद्यमानैकसमयात्मको वर्तमानो नैश्चयिकः । तमवधीकृत्य भूतस्समयराशिरतीतः । तमेव समयं वर्तमानमवधीकृत्य यो भावी समयराशिः सोऽनागतः कालः । वर्तमानसमयान्यः सर्वोऽपि कालो व्यावहारिक इति भावस्तदुक्तं-"अद्धाकालस्यैव भेदः प्रमाणकाल उच्यते । अहोरात्रादिको वक्ष्यमाणविस्तारवैभवः ॥ तथा, अत्र प्रमाणकालोऽस्ति प्रकृतस्स प्रतन्यते । अतीतोऽनागतो वर्तमानश्चेति त्रिधा स च ॥ अवधीकृत्य समयं वर्तमानं विवक्षितम् । भूतस्समयराशिर्यः कालोऽतीतः स उच्यते ॥ अवधीकृत्य समयं वर्तमानं विवक्षितम् । भावी समयराशिर्यः कालस्स स्यादनागतः ॥ वर्त्तमानः पुनर्वर्तमानैकसमयात्मकः । असौ नैश्चयिकस्सर्वोऽप्यन्यस्तु व्यावहारिकः" ॥ इति जम्बूद्वीपप्रज्ञप्तिवृत्त्याद्यभिप्रायः ।।
આ પ્રમાણે કાળનું સ્વરૂપ અને પ્રમાણનો નિશ્ચય થઈ ગયો. હવે કાળમાં અસ્તિકાયપણાનો અભાવ હોઈ કાળના સ્કંધ-દેશ-પ્રદેશ રૂપ ભેદો નથી, પરંતુ તે કાળ એક પ્રકારનો છે. એ વાત કહે છે કે
ભાવાર્થ- અને તે કાળ વર્તમાન સ્વરૂપી એક જ છે. તે કાળ પણ નિશ્ચય અને વ્યવહારથી બે रनो छे. | વિવેચન- તે કાળ વર્તના-કાર્યલિંગ વડે અનુમાનના વિષયભૂત થતો અદ્ધા સમય રૂપ સમજવો, પરંતુ દ્રવ્યપર્યાયવર્તના આદિ રૂપ સ્વરૂપવાળો કાળ નહિ; કેમ કે-વર્તના રૂપ કાળ જીવ અને અજીવ રૂપ છે. (छप-अप द्रव्य५याय ३५ ॥ ७.)
તે વર્તમાનસ્વરૂપી એક જ છે. એટલે વર્તમાન એક સમય રૂપ તે કાળ છે એમ સમજવું
હવે આ કાળના બે પ્રકારો દર્શાવે છે કે-તે પણ એટલે વર્તમાન એક સમયસ્વરૂપી, અદ્ધાકાલવિશેષ, પ્રમાણકાળ પણ નૈૠયિક અને વ્યાવહારિક-એમ બે પ્રકારવાળો છે.
१. तत्रानागतः कालोऽनादित्वानन्तत्वाभ्यां समानोऽपि समयाधिकः, वर्तमानसमयस्य तत्र प्रवेशात्, न चातीते कुतो न तस्य प्रवेश इति वाच्यम् । अतीतस्य विनष्टरूपतयाऽविनश्वररूपस्य तस्य तत्र प्रवेशासम्भवात्, किन्त्वविनश्वरेऽनागत एवेति । अतीतः कालश्चानागतकालात्समयेन न्यूनः । केचित्तु अतीताद्धातोऽनागताद्धाया अनन्तगुणत्वं समत्वे चेदानी समयातिक्रमे समयोना स्यात्, अनन्तगुणत्वे तु नानन्तेनापि कालेन गतेनासौ क्षीयत इति वदन्ति ॥