________________
१२२
तत्त्वन्यायविभाकरे कालस्यास्तिकायत्वप्रसङ्गाच्च । अयमेव द्रव्यकालः । ईदृशाभिप्रायेणाऽऽगमः "किमयं भंते ! कालेत्ति पवुच्चई ? गोयमा ! जीवा चेव अजीवा चेव" इति ॥
यदि सर्वद्रव्यवर्ती वर्तनादिपर्याय: कालनाम्ना पृथग् द्रव्यं माभूत्, परन्तु सूर्यादिचाराभिव्यङ्ग्यो मनुष्यक्षेत्रवर्ती परमाणुवत्कार्यानुमेयश्शुद्धपदवाच्यत्वात्सत्त्वेनानुमीयमानो लोकप्रसिद्धः कालाभिधानष्षष्ठद्रव्यतया कथं न सिद्धयेदिति विभाव्यते तदा वर्तनया लक्ष्यतेऽनुमीयते योऽसौ वर्तनालक्षणः काल इत्यर्थो वाच्यः । एकस्मिन्नविभागिनि समये धर्मादीनि द्रव्याणि स्वकीयपर्यायैरादिमदनादिमद्भिरुत्पादव्ययध्रौव्यविकल्पैर्वर्तन्त इति तद्विषया वृत्तिवर्त्तना । सा च तुल्यजातीयानां भावानां युगपद्भाविन्यत्र विवक्षिता, तस्या एव कालापेक्षत्वात्, माकन्दादिषु मञ्जरिकादिवत् । एतेन मनुष्यक्षेत्रात्परत ऊर्ध्वाधोलोकयोश्च काललिङ्गानां वर्तनादीनां सत्त्वेन कुतो न तत्र कालोऽभ्युपगम्यत इति शङ्का परास्ता, तत्र भावानां वर्तनायाः कालानपेक्षत्वात्तत्र सतां पदार्थानां स्वयमेवोत्पद्यमानत्वाद्विनश्यमानत्वाद्वर्त्तमानत्वाच्च । सजातीयेषु सर्वेषु युगपत्तदनुद्भवात् । विवक्षितेन नवपुराणादिना तेन तेन रूपेण परमाण्वादिपदार्थानां शश्वद्भवनं सा वा वर्तना, तथा च स्वयमेव वर्तमानानां पदार्थानां या वर्तनशीलता सा बाह्यनिमित्तान्तरसापेक्षा कार्यत्वाद्धटादिवदिति वर्तनशीलत्वनिरूपितापेक्षाकारणत्वेन कालसिद्धिर्भवति । न च सा वर्तना समयपरिणतिस्वभावा दुरधिगमा चेति कथं तस्य पक्षत्वमिति वाच्यम्, व्यावहारिकस्य पाकस्य तण्डुलविक्लेदनलक्षणस्यौदनपरिणामस्य दर्शनात्, प्रतिसमयं प्रथमसमयादारभ्य सूक्ष्मपाकाभिनिर्वृत्तेरिव सर्वेषामपि द्रव्याणां स्वस्वपर्यायाभिनिवृत्तौ प्रतिसमयं वर्तनाया अनुमीयमानत्वादस्ति कालो नवपुराणादिपरिणामान्यथानुपपत्तेरिति ॥ तथा ह्य:श्वोऽद्यादिकालवचनान्यपि बाह्यार्थनिबन्धनानि, असमस्तपदत्वाद्रूपादिशब्दवत्, ह्यआदिकालवचनानि यथार्थानि यथाभ्युपगममाप्तैस्तथाभिधीयमानत्वात्, प्रमाणावगम्यः प्रमेयोऽर्थ इत्येवंविधवचनवदित्याद्यनुमानानि भाव्यानि । न चादित्यगतिनिबन्धना वर्तना, तद्गतावपि वर्तनाया दर्शनेनापरहेतुत्वप्रसङ्गात् । नवाऽऽकाशप्रदेशनिमित्ता, तस्याधिकरणत्वात् तस्मात्कालोऽस्त्येवायमेव चाद्धाकाल उच्यते । एवञ्च यत्र कालस्तत्र वृत्तिर्वर्तनाद्याकारेण परिणमते नान्यत्रेति नियमः । न च बाह्यद्वीपेषु भावानां वृत्तिः कालापेक्षा वृत्तिशब्दवाच्यत्वादिहत्यकुसुमवृत्तिवदिति तत्रापि कालसिद्धिरिति वाच्यम्, अलोकस्य वृत्तौ समयवृत्तौ च व्यभिचारात्, तथा चोत्पादव्ययध्रौव्यव्यतिरेकेण सत्त्वस्य गुणपर्यायव्यतिरेकेण च द्रव्यत्वस्यासम्भवात् कालस्यापि सत्त्वं द्रव्यत्वञ्च सिद्धमेव ।