________________
सूत्र - २१-२२-२३, द्वितीय किरणे
९१
વિવેચાન- ત્યાં એટલે છ પર્યાપ્તિઓ પૈકી એકેન્દ્રિય જીવને આહાર-શરીર-ઇન્દ્રિય-ઉચ્છ્વાસ રૂપ પહેલી ચાર પર્યાપ્તિઓ હોય છે, કેમ કે-તે એકેન્દ્રિય જીવમાં ભાષા અને મનનો અભાવ છે.
બેઈન્દ્રિયવાળા, ત્રણ ઇન્દ્રિયવાળા, ચાર ઇન્દ્રિયવાળા અને મન વગરના પાંચ ઇન્દ્રિયવાળા જીવોને आहार-शरीर-इन्द्रिय-उच्छ्वास - भाषा ३५ पांय पर्याप्तिसो छे, प्रेम - ते वोमां भननो अभाव होई मनःपर्याप्ति नथी.
જે અપર્યાપ્તનામનકર્મના ઉદયથી લબ્ધિઅપર્યાપ્ત જીવો પણ આ પોતપોતાની યોગ્ય પર્યાપ્તિઓથી અપર્યાપ્તા જ મરણને પામે છે.
તે લબ્ધિઅપર્યાપ્ત જીવો પણ પહેલી આહાર-શરીર-ઇન્દ્રિયપર્યાપ્તિઓને પૂર્ણ કરી, અંતર્મુહૂર્તમાં આયુષ્ય બાંધીને, ત્યારબાદ અબાધા કાળ રૂપી અંતર્મુહૂર્ત સુધી જીવીને જ મરે છે. આ પ્રમાણે સમજવું. अथ पर्याप्तापर्याप्तभेदभाजस्सूक्ष्मादिसप्तविधान् जीवान् दिङ्मात्रेण निदर्शयतिसूक्ष्माश्च निगोदादिवर्तिनः । बादराः स्थूलपृथिवीकायिकादयः । द्वीन्द्रियाः कृम्यादयः । त्रीन्द्रियाः पिपीलिकादयः । चतुरिन्द्रिया भ्रमरादयः । २३ ।
सूक्ष्माश्चेति । सूक्ष्मजीवानां पृथिव्यादिपञ्चकायप्रभेदत्वेऽपि सूक्ष्मतरत्वादेकस्मिन् शरीरेऽप्यनन्तानां सद्भावाच्च निगोदस्य सूक्ष्मपृथ्वीकायिकाद्यपेक्षया प्रथममुपादानं, आदिना च सूक्ष्माणां पृथिवीकायिकादीनां ग्रहणम् । बादरैकेन्द्रियान्निदर्शयति - बादरा इति, पृथिव्येव कायः पृथिवीकाय:, स्थूलश्चासौ पृथिवीकायश्च स्थूलपृथिवीकायः, स विद्यत एषान्ते स्थूलपृथिवीकायिकास्त आदिर्येषामिति तद्गुणसंविज्ञानो बहुव्रीहिः । न च स्थूलः पृथिवीकायो येषामिति बहुव्रीहिणैव विवक्षितार्थलाभे 'न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर' इति न्यायेन कर्मधारयान्मत्वर्थो न कार्य इति वाच्यम्, असुब्वत इति व्याकरणमहाभाष्यप्रयोगात् कृष्णसर्पवद्वल्मीकमित्यादिलौकिकप्रयोगाच्चोक्तनियमस्य क्वाचित्कत्वात् । आदिनाऽप्कायिकतेजस्कायिकवायुकायिकवनस्पतिकायिकानां ग्रहणम् । स्पर्शेन्द्रियमात्रत्वादेषामेकेन्द्रियत्वं बोध्यम् । यद्यपि पृथिवीकायिकादिषु नोपयोगादीनि जीवलक्षणानि व्यक्तानि तथापि हत्पूरक व्यतिमिश्रमदिरातिपानपित्तोदयाकुलीकृतान्तः करणस्याव्यक्तचेतनेवात्रापि चेतनाऽव्यक्ताऽभ्युपगन्तव्या । न च तत्राव्यक्तचेतनालिङ्गानि श्वासोच्छ्रासादीनि सन्ति न त्वत्र किमपीति वाच्यम्, अर्शोमांसाङ्करवत्समानजातीयलतोद्भेदादीनां चेतनाचिह्नानां सत्त्वात्, कठिनपुद्गलात्मकानामश्मादीनामपि शरीरानुगतास्थिवत्सचेतनत्वं बोध्यम् ॥ अत्र पृथिवीकायिकादि-जीवेष्विमानि प्रमाणानि विज्ञेयानि सन्ति पृथिवीकायिका जीवास्तदधिष्ठितशरीरोपलब्धेर्गवा-श्वादिवत् ।