________________
४४
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्रपुरुषविशेषचरितं प्रकीर्णकं कवलाहारादिनियतमनेकविधं तद्यथेत्यादिना दर्शयति
यववज्रमध्ये चन्द्रप्रतिमे द्वे मध्यशब्दः प्रत्येकमभिसम्बध्यते, यवमध्या वज्रमध्या च चन्द्रप्रतिमे इति चन्द्रतुल्ये, यथा चन्द्रस्य कलावृद्धिः प्रतिवासरं एवं भिक्षाकवलवृद्धिः यथा चन्द्रस्य हानिः प्रतिदिनं तथा भिक्षाकवलहानिरिति, तत्र यवमध्या चन्द्रप्रतिमा शुक्लप्रतिपदारम्भादमावस्यान्ता, प्रतिपद आरभ्य यथा चन्द्रस्य कलावृद्धिस्तथा भिक्षावृद्धिः कवलवृद्धिर्वा यावत् पौर्णमास्यां पञ्चदश कवलाः ततः कृष्णप्रतिपद्यपि पञ्चदश कवला: एवमेकैककवलहान्या यावदमावस्यायामेकः कवल इत्येषा यवमध्या, __ वज्रमध्या तु कृष्णप्रतिपदारम्भा, कृष्णप्रतिपदि पञ्चदश कवलानभ्यवहरति, तत्राप्येकैककवलहानिर्यावदमावस्यायामेकः कवलः, शुक्लप्रतिपद्यप्येक एवेति, द्वितीयादिष्वेकैकवृद्धिर्यावत् पौर्णमास्यां पञ्चदशेत्येषा वज्रमध्या ।
कनकरत्नमुक्तावल्यस्तिस्रः कनकावली रत्नावली मुक्तावली च, तत्र कनकावली तावद्व्याख्यायते-प्राक्तावत् चतुर्थभक्तं ततः षष्ठमष्टमं, ततोऽपि षष्ठान्यष्टौ, पुनश्चतुर्थषष्ठाष्टमदशमद्वादशचतुर्दशषोडशाष्टादशविंशतिद्वाविंशतिचतुर्विंशतिषड्विंशतिअष्टाविंशतित्रिंशद्वात्रिंशच्चतुस्त्रिशद्भक्तानि, ततः पुनश्चतुस्त्रिंशत्सङ्ख्यानि षष्ठानि, ततः परमेतदेवाद्यमर्द्ध चतुस्त्रिंशद्भक्तादारभ्य प्रतिलोमं रचनीयं यावत् पर्यन्ते चतुर्थभक्तमिति । अस्यां च तपोदिवसानां त्रीणि शतानि चतुरशीत्यधिकानि अष्टाशीतिपारणादिवसप्रक्षेपात् पिण्डः वर्षमेकं मासत्रयं द्वाविंशतिदिवसाः, अत्र च प्रथमकनकावल्यां सर्वकामगुणितेन पारणाविधिः, द्वितीयकनकावल्यां पारणके सर्वनिर्विकृतिकं पारणीयं, तृतीयस्यां पारणविधिरलेपकृताहारेण,