________________
૨૨ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૫ प्रयोजनमात्रसाधकं मितं, असंदिग्धं सूक्तवर्णमर्थप्रतिपत्तौ वा न सन्देहकारि, निरवद्यार्थमनुपघातकं षण्णां जीवनिकायानाम्, एवंविधं च नियतं सर्वदैव भाषणं भाषासमितिः । एषणासमितिस्वरूपावधारणायाहअन्नपानेत्यादि अन्नम्-अशनखाद्यस्वाद्यभेदं पानम्-आरनालतन्दुलक्षालनाद्युद्गमादिदोषपरिशुद्धं तथा रजोहरणं समुखवसनं पात्रद्वयं चोलपट्टकादि चीवरम्, आदिग्रहणात् चतुर्दशविधोऽप्युपधिः स्थविरकल्पयोग्यः जिनकल्पयोग्यश्च सहौपग्रहिकेण ग्राह्यः, धर्मसाधनानामिति, श्रुतचरणधर्मसाधकानामित्यर्थः, साक्षात् पारम्पर्येण च, न हि पात्राद्यन्तरेण महाव्रतसंरक्षणं कर्तुं शक्यम्, एवमाहारोपकरणविषयामेषणां प्रतिपाद्य प्रतिश्रयैषणाभिधानायाह-आश्रयः-शय्या, साऽप्युद्गमादिदोषरहितैव परिभोग्या, चशब्दः समुच्चितौ, तत्र षोडश आधाकादय उद्गमदोषाः, उत्पादनादोषाः षोडश चैव धात्र्यादयः, दशैषणादोषाः शङ्कितादयः, एतद्दोषपरिहारेणान्नपानादिग्रहणमेषणासमितिः, उक्तं च
"उत्पादनोद्गमैषणधूमाङ्गारप्रमाणकारणतः । संयोजनाच्च पिण्डं शोधयतामेषणासमितिः ॥१॥"
आदाननिक्षेपसमितिस्वरूपविवक्षया प्राह-रजोहरणेत्यादि रजोहरणादिपात्रचीवरादीनामिति चतुर्दशविधोपधेर्ग्रहणं द्वादशविधोपधिग्रहणं च पञ्चविंशतिविधोपधिपरिग्रहश्च, पीठफलकादीनामिति चाशेषौपग्रहिकोपकरणं आवश्यकार्थमित्यवश्यंतया वर्षासु पीठफलकादिग्रहः, कदाचिद्धेमन्तग्रीष्मयोरपि क्वचिदनूपविषये जलकणिकाकुलायां भूमौ, एवं द्विविधमप्युपधिं स्थिरतरमभिसमीक्ष्य प्रमृज्य च रजोहत्याऽऽदाननिक्षेपौ कर्त्तव्यावित्यादाननिक्षेपणासमितिः, आह च
"न्यासाधिकरणदोषान् परिहृत्य दयापरस्य निक्षिपतः । न्यासे समितिरथादाने च तथैवाददानस्य ॥१॥"