________________
૨૬૬
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
सूत्र-४८
સમ્યગ્દષ્ટિથી શ્રાવક અસંખ્યગુણ નિર્જરાવાળો થાય છે. શ્રાવકથી વિરત, વિરતથી અનંતાનુબંધિવિયોજક અસંખ્યગુણ નિર્જરાવાળો થાય છે. એ પ્રમાણે બાકીના જીવો પણ ક્રમશઃ અસંખ્યગુણ નિર્જરાવાળા
4. (८-४८) टीका- सम्यग्दृष्टिरिति तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तेन युक्तः सम्यग्दृष्टिः, सम्यग्दर्शनमात्रभागित्यर्थः, आचार्यप्रभृतीन् पर्युपासीनः प्रवचनसारं श्रृणोतीति श्रावकः, श्रृण्वंश्च सकलचरणकरणाक्षमो गृहस्थयोग्यमणुगुणशिक्षाव्रतलक्षणं धर्ममनुतिष्ठति यथाशक्ति वा द्वादशप्रकारस्य धर्मस्यैकदेशानुष्ठाय्यपि श्रावक इति, विरतस्तु साधुधर्मानुष्ठायी सर्वस्मात् प्राणातिपाताद्यावज्जीवं विरतः, एवं मृषावादादिभ्योऽपि, अनन्तः संसारस्तदनुबन्धिनोऽनन्ताः क्रोधादयः तान् वियोजयतिक्षपयति उपशमयति वाऽनन्तवियोजकः, दर्शनमोहोऽनन्तानुबन्धिनश्चत्वारः सम्यग्मिथ्यात्वतदुभयानि च, अस्य सप्तविधस्य दर्शनमोहस्य क्षपकः, तथाऽस्यैवोपशमकः, मोहः अष्टाविंशतिभेदः षोडश कषायाः सम्यक्त्वमिथ्यात्वसम्यग्मिथ्यात्वहास्यरत्यरतिभयशोकजुगुप्सास्त्रीपुंनपुंसकवेदाश्च, अस्योपशमनादुपशान्तमोहः, अस्यैव सकलस्य क्षपणात् मोहक्षपकः, क्षपणोपशमनक्रियाविशिष्टयोर्ग्रहणं, क्षपितनिरवशेषमोहः क्षीणमोहः, चतुर्विधघातिकर्मजयनाज्जिनः-केवली, एते सम्यग्दृष्ट्यादयो जिनावसाना दश क्रमेण क्रमशः प्रतिपाद्याः यथोपन्यस्तास्तथैवासङ्ख्येयगुणनिर्जरा भवन्ति, न तु तुल्यनिर्जरा इत्यर्थः, तामेवासङ्ख्येयगुणां निर्जरां स्पष्टयति भाष्यकारः सम्यग्दृष्टेः श्रावकोऽसङ्ख्येयगुण इत्यादिना, केवलसम्यग्दृष्टेः प्रतिपन्नाणुव्रतादिकलापः श्रावकोऽसङ्ख्येयगुणनिर्जरो भवति, यावत् कर्म निर्जरयति सम्यग्दृष्टिः सम्यग्दर्शनप्रभावात् तत् कर्म परेणासङ्ख्येयेन राशिना गुणितं सद्यावद्भवति तावद्देशविरतः क्षपयति, एवं पूर्वस्मादुत्तरोऽसङ्ख्येयगुणनिर्जरो भवतीति दर्शयति, श्रावकाद्विरतो