________________
૨૩૮ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
સૂત્ર-૩૮ भाष्यावतरणिका- किञ्चान्यत्- - . --. ભાષ્યાવતરણિકાર્થ– વળી બીજું– टीकावतरणिका- किञ्चान्यदित्यनेन स्वाम्यन्तरं सम्बध्नातिટીકાવતરણિકાર્થ– “વળી બીજું” એવા કથનથી (ધર્મધ્યાનના) અન્ય સ્વામીના સંબંધને કહે છે– ધર્મધ્યાનના સ્વામીનો નિર્દેશउपशान्तक्षीणकषाययोश्च ॥९-३८॥
સૂત્રાર્થ– ઉપશાંતકષાય અને ક્ષીણકષાયમુનિને પણ ધર્મધ્યાન હોય छ. (४-3८)
भाष्यं-उपशान्तकषायस्य क्षीणकषायस्य च धर्मं ध्यानं भवति॥९-३८॥ ભાષ્યાર્થ– ઉપશાંતકષાય અને ક્ષીણકષાય મુનિને (પણ) ધર્મધ્યાન डोय छे. (-3८)
टीका- चशब्दः समुच्चये, कषायशब्दः प्रत्येकमभिसम्बध्यते, उपशान्ताः कषाया यस्यासावुपशान्तकषायः, एकादशगुणस्थानवर्ती, क्षीणः कषायो यस्य स क्षीणकषायः, भस्मच्छन्नाग्निवदुपशान्ताः, निरवशेषतः परिशाटिताः क्षीणाः विध्यातहुताशनवद्, अनयोश्च उपशान्तक्षीणकषाययोरप्रमत्तसंयतस्य च धर्मध्यानं भवति, तत्रोपशान्तक्षीणकषायस्वरूपविज्ञानाय अधस्तनं गुणस्थानत्रयमवश्यंतया प्ररूपणीयं, अन्यथा तदपरिज्ञानमेव स्यादिति, अप्रमत्तस्थानादसङ्ख्येयानि विशोधिस्थानानि आरुह्यापूर्वकरणं प्रविशति, समये समये स्थितिघातरसघातस्थितिबन्धगुणश्रेणीगुणसङ्कमकरणमपूर्वमपूर्वं निर्गच्छतीत्यपूर्वकरणं, अप्राप्तपूर्वकत्वाद्वा संसारे तदपूर्वकरणं, न तत्र कस्याश्चिदपि कर्मप्रकृतेरुपशमनं क्षयो वा, उपशमनाभिमुखात्तत्पुरस्कारादुपशमकः क्षपणार्हत्वाच्च क्षपक इति, उक्तं च
"स ततः क्षपकश्रेणी प्रतिपद्य चरित्रघातिनीः शेषाः । क्षपयन् मोहप्रकृतीः प्रतिष्ठते शुद्धलेश्याकः ॥१॥