________________
सूत्रશ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૯
૧૩૧ एषणीयमेव कल्पादि गवेषयेत् परिभुञ्जीत वा, नोऽपि शीतार्तोऽग्नि ज्वालयेत्, अन्यज्वालितं वा नासेवेत, एवमनुतिष्ठता शीतपरीषहजयः कृतो भवति ३,
एवमुष्णतप्तोऽपि जलावगाहस्नानव्यजनवातान् वर्जयेद्, अभिधारयेत् छायादि वा, अत उष्णमापतितं सम्यक् सहते, नैवातपशीतोष्णत्रयाद् बीभेति ४,
दंशमशकादिभिर्दश्यमानोऽपि न ततः स्थानादपगच्छेत्, न च तदपनयनार्थं धूमादिना यतेत, न च व्यजनादिना निवारयेदित्येवं दंशमशकपरीषहजयः कृतः स्यात्, नान्यथेति ५ ।।
नाग्न्यपरीषहस्तु न निरुपकरणतैव दिगम्बरभौतादिवत्, किं तर्हि ?, प्रवचनोक्तेन विधानेन नाग्न्यं, प्रवचने तु द्विविधः कल्पः-जिनकल्पः स्थविरकल्पश्च, तत्र स्थविरकल्पे परिनिष्पन्नः जिनकल्पी भवति, तत्र क्रमेण धर्मश्रवणसमनन्तरं प्रव्रज्याप्रतिपत्तिः, ततो द्वादश वर्षाणि सूत्रग्रहणं, पश्चाद्वादश वर्षाण्यर्थग्रहणं, ततो द्वादश देशदर्शनं, कुर्वन्नेव च देशदर्शनं निष्पादयति शिष्यान्, शिष्यनिष्पत्तेरनन्तरं प्रतिपद्यतेऽभ्युद्यतविहारं, स च त्रिविधो-जिनकल्पः शुद्धिपरिहारः यथालन्दश्च, तत्र जिनकल्पप्रतिपत्तियोग्य एव जिनकल्पं प्रतिपत्तुकामः प्रथममेव तपःसत्त्वादिभावनाभिरात्मानं भावयति, भावितात्मा च द्विविधे एव परिकर्मणि प्रवर्त्तते, यदि पाणिपात्रलब्धिरस्ति ततस्तदनुरूपमेव परिकर्म चेष्टते, अथ पाणिपात्रलब्धिर्नास्ति ततः प्रतिग्रहधारित्वपरिकर्मणि प्रवर्त्तते, तत्र यः पाणिपात्रलब्धिसम्पन्नस्तस्योपधिरवश्यंतया रजोहरणं मुखवस्त्रिका च, कल्पग्रहणात् त्रिविधश्चतुर्विधः पञ्चविधो वा, प्रतिग्रहधारिणस्तु नवप्रकारोऽवश्यंतया, कल्पग्रहणाद् दशविध एकादशविधो द्वादशविधो वा उपधिरागमेऽभिहितः, एवंविधं नाग्न्यमिष्टं,