________________
૨૨૪
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૭ - સૂત્ર-૨૬ સૂત્રાર્થ– આનયન, પ્રખ્યપ્રયોગ, શબ્દાનુપાત, રૂપાનુપાત અને પુદ્ગલપ્રક્ષેપ એ પાંચ દેશવિરતિ(=દેશાવગાશિક) વ્રતના અતિચારો छे. (७-२६)
भाष्यं- द्रव्यस्यानयनं, प्रेष्यप्रयोगः, शब्दानुपातः, रूपानुपातः, पुद्गलप्रक्षेप इत्येते पञ्च देशव्रतस्यातिचारा भवन्ति ॥७-२६॥
ભાષ્યાર્થ-દ્રવ્યનું આનયન, શ્રેષ્ઠ પ્રયોગ, શબ્દાનુપાત, રૂપાનુપાત અને પુદ્ગલપ્રક્ષેપ આ પ્રમાણે આ પાંચ દેશવ્રતના અતિચારો છે. (૭-૨૬).
टीका- दिग्व्रतविशेष एव देशव्रतम्, इयांस्तु विशेष:-एकं यावज्जीवसंवत्सरचतुर्मासीपरिमाणं वा, देशव्रतं तु प्रतिदिवसं प्रतिप्रहरमुहूर्तादिपरिमाणम्, अस्यातिचाराः पञ्च भवन्ति, द्रव्यस्यानयनमित्यादि विशिष्टावधिके भूदेशाभिग्रहे परतो गमनासम्भवात् स्वतो यदन्योऽवधीकृतदेशाद् बहिर्वर्तिनः सचित्तादिद्रव्यस्यानयने प्रयुज्यते, त्वयेदमानेयं, सन्देशकप्रदानादिनाऽऽनयने प्रयोगः आनयनप्रयोगः । आनयनप्रयोग इत्यन्ये पठन्ति । बलाद्विनियोगः प्रेष्यप्रयोगः । यथाऽभिगृहीतदेशव्यतिक्रमभयात् प्रेष्यं प्राहिणोति-त्वया अवश्यमेव गत्वा मम गवाद्यानेयं इदं वा तत्र कर्तव्यमिति प्रेष्यप्रयोगः, स्वगृहवृत्तिप्राकारकादिव्यवच्छिन्नभूदेशाभिग्रहे बहिः प्रयोजने उत्पन्ने स्वयमगमनाद् वृत्तिप्राकारप्रत्यासन्नवर्तीभूत्वा क्षुत्कासितादिशब्दकरणेन समवसितकान् बोधयति, ते च तच्छब्दश्रवणात्तदुपकण्ठमाढौकन्त इति देशव्रतातिचारः, अनुपातशब्दः प्रत्येकमभिसम्बध्यते, शब्दमनुपततीति शब्दानुपातः, स एव श्रोता पुरुषः, अथवा शब्दस्यानुपतनम्-उच्चारणं तादृग् येन परकीयश्रवणविवरमनुपतति शब्दः, तथा रूपानुपातः शब्दमनुच्चारयन्नुत्पन्नप्रयोजनः स्वशरीररूपं परेषां दर्शयति, तद्दर्शनाच्च तत्समीपमागच्छन्ति ते द्रष्टार इति रूपानुपातः, तथा पुद्गलक्षेपोऽतिचारः, पुद्गला:-परमाण्वादयः, तत्संयोगाद् व्यणुकादयः स्कन्धाः सूक्ष्म