________________
૨૭૧
સૂત્ર-૩૫ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ पर्यायविशुद्धिविशेषादुत्कर्षेण, न च ता विप्रतिपत्तयः तद्वन्नयवादाः । यथा वा प्रत्यक्षानुमानोपमानाप्तवचनैः प्रमाणैरेकोऽर्थः प्रमीयते, स्वविषयनियमात्, न च ता विप्रतिपत्तयो भवन्ति, तद्वन्नयवादा इति ।
आह चनैगमशब्दार्थानामेकानेकार्थनयगमापेक्षः । देशसमग्रग्राही व्यवहारी नैगमो ज्ञेयः ॥१॥ यत्सगृहीतवचनं सामान्ये देशतोऽथ च विशेषे । तत्सङ्ग्रहनयनियतं ज्ञानं विद्यान्नयविधिज्ञः ॥२॥ समुदायव्यक्त्याकृतिसत्तासज्ञादिनिश्चयापेक्षम् । लोकोपचारनियतं व्यवहारं विस्तृतं विद्यात् ॥३॥ साम्प्रतविषयग्राहकमजुसूत्रनयं समासतो विद्यात् । विद्याद्यथार्थशब्दं विशेषितपदं तु शब्दनयम् ॥४॥ इति ॥
अत्राह- अथ जीवो नोजीवः अजीवो नोअजीव इत्याकारिते केन नयेन कोऽर्थः प्रतीयत इति । अत्रोच्यते- जीव इत्याकारिते नैगमदेशसङ्ग्रहव्यवहारर्जुसूत्रसाम्प्रतसमभिरूद्वैः पञ्चस्वपि गतिष्वन्यतमो जीव इति प्रतीयते । कस्मात् । एते हि नया जीवं प्रत्यौपशमिकादियुक्तभावग्राहिणः । नोजीव इत्यजीवद्रव्यं जीवस्य वा देशप्रदेशौ । अजीव इत्यजीवद्रव्यमेव । नोअजीव इति जीव एव, तस्य वा देशप्रदेशाविति । एवम्भूतनयेन तु जीव इत्याकारिते भवस्थो जीवः प्रतीयते । कस्मात् । एष हि नयो जीवं प्रत्यौदयिकभावग्राहक एव । जीवतीति जीवः प्राणिति प्राणान्धारयतीत्यर्थः । तच्च जीवनं सिद्धे न विद्यते तस्माद् भवस्थ एव जीव इति । नोजीव इत्यजीवद्रव्यं सिद्धो वा। अजीव इत्यजीवद्रव्यमेव । नोअजीव इति भवस्थ एव जीव इति । समग्रार्थग्राहित्वाच्चास्य नयस्य नानेन देशप्रदेशौ गृह्यते । एवं जीवौ