________________
શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
27
परमार्थालाभे वा दोषेष्वारम्भकस्वभावेषु । कुशलानुबन्धमेव स्यादनवद्यं यथाकर्म ॥३॥
શ્લોકાર્થ– આરંભમાં પ્રવર્તાવવાના સ્વભાવવાળા કષાયાદિ દોષોની વિદ્યમાનતાના કારણે પરમાર્થ(ગકર્મક્લેશોનો સર્વથા અભાવ) ન થઈ શકે તો કુશળકર્મનો=પુણ્યાનુબંધી પુણ્યનો અનુબંધ થાય તે પ્રમાણે नि२वध आर्य ४२१. स. (1.3)।
टीका- 'परमार्थे'त्यादि, 'परमार्थालाभे वा' परमार्थस्यालाभः तस्मिन् अक्षेपेणैवोक्तलक्षणपरमार्थप्राप्तौ वा असत्यां, अप्राप्तिनिबन्धनमाह- 'दोषेष्वारम्भकस्वभावेषु' दूषयन्त्याशयमिति दोषा-रागादयः तेषु, आरम्भयतिजन्मान्तरबीजोपादानाय अशुभे प्रवर्त्तयतीत्यारम्भकः, आरम्भकः स्वभावो येषामिति विग्रहः तेष्वेवंभूतेषु सत्सु, परमार्थालाभे सति किं कर्त्तव्यमित्याह'कुशलानुबन्धमेवे'ति कुशलं शुभस्थानप्राप्तिहेतुः पुण्यं तदनुबध्नाति उत्तरोत्तरहेतुप्राप्तिहेतुत्वेन तस्मिन् वा अनुबन्धोऽस्येति कुशलानुबन्धं, कुशलप्रयोजनमित्यर्थः, एवकारोऽवधारणे, कुशलानुबन्धमेव नाकुशलानुबन्धं, 'स्यादनवद्यं, यथाकर्म' स्याद्-भवेद् अनवयं-औचित्येन गुणप्रतिपत्त्या सूक्ष्मेतरनिदानपरिहारेण चापापं यथा कर्म-उक्तलक्षणं तन्निबन्धनं वाऽनुष्ठानं, तथा प्रयतितव्यमिति वर्त्तते, किमन्यथापि कश्चित् प्रयतत इति ?, उच्यते, षट्पुरुषविशेषभावात् प्रयतन्ति, षट् पुरुषाः अधमाधमः अधमः विमध्यमः मध्यमः उत्तमः उत्तमोत्तम इति, अमीषामाद्यत्रयमकुशलानुबन्धं प्रति प्रयतते, चतुर्थः कुशलाकुशलानुबन्धं, पञ्चमः कुशलानुबन्धं, षष्ठो निरनुबन्धमिति ॥३॥
अर्थ- “परमार्थे"त्यादि, ५२मार्थनो वाम न थाय तेम अथवा ઉક્તલક્ષણવાળા પરમાર્થની પ્રાપ્તિ જલદી ન થાય તેના કારણને કહે છે"दोषेष्वारम्भकस्वभावेषु" शयने दूषित २ ते २॥ वगेरे होषी छे. આરંભ કરાવે તે આરંભક. આરંભ કરાવે છે એટલે જન્માંતરના બીજનું ગ્રહણ કરવા માટે અશુભમાં પ્રવર્તાવે છે. આરંભક સ્વભાવ છે જેમનો તે આરંભકસ્વભાવવાળા એવો વિગ્રહ છે. આવા પ્રકારના આરંભક