________________
સૂત્ર-૩૧ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૨૫૧ જ્ઞાનો હોય એવો પ્રશ્ન છે. “અહીં કહેવાય છે” એવો ઉલ્લેખ પ્રત્યુત્તર આપવા સંબંધી છે, અર્થાત્ અહીં પ્રત્યુત્તર કહેવાય છે
એક જીવને એકી સાથે ચાર જ્ઞાન હોયएकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्थ्य: ॥१-३१॥ સૂત્રાર્થ– એક જીવને એકી સાથે એક, બે, ત્રણ કે ચાર જ્ઞાન હોઈ . (१-३१)
भाष्यं- एषां मत्यादीनां ज्ञानानामादित एकादीनि भाज्यानि युगपदेकस्मिञ्जीवे आ चतुर्थ्यः । कस्मिंश्चिज्जीवे मत्यादीनामेकं भवति । कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित्त्रीणि भवन्ति । कस्मिंश्चिच्चत्वारि भवन्ति । श्रुतज्ञानस्य तु मतिज्ञानेन नियतः सहभावस्तत्पूर्वकत्वात् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद्वा न वेति ।
अत्राह- अथ केवलज्ञानस्य पूर्वैर्मतिज्ञानादिभिः किं सहभावो भवति नेति । अत्रोच्यते- केचिदाचार्या व्याचक्षते । नाभावः, किन्तु तदभिभूतत्वादकिञ्चित्कराणि भवन्तीन्द्रियवत् । यथा वा व्यभ्रे नभसि आदित्ये उदिते भूरितेजस्त्वादादित्येनाभिभूतान्यन्यतेजांसि ज्वलनमणिचन्द्रनक्षत्रप्रभृतीनि प्रकाशनं प्रत्यकिञ्चित्कराणि भवन्ति तद्वदिति । केचिदप्याहुः । अपायसद्व्यतया मतिज्ञानं, तत्पूर्वकं श्रुतज्ञानम्, अवधिज्ञानमनःपर्यायज्ञाने च रूपिद्रव्यविषये, तस्मान्नैतानि केवलिनः सन्तीति ॥ किञ्चान्यत् । मतिज्ञानादिषु चतुर्पु पर्यायेणोपयोगो भवति, न युगपत् । संभिन्नज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत्सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानुसमयमुपयोगो भवति ॥ किञ्चान्यत् । क्षयोपशमजानि चत्वारि ज्ञानानि पूर्वाणि, क्षयादेव केवलं । तस्मान्न केवलिनः शेषाणि ज्ञानानि सन्तीति ॥१-३१॥
ભાષ્યાર્થ– મતિજ્ઞાન આદિ પ્રથમથી આરંભી ચાર સુધી એકી સાથે १. म आङवधौ (सिद्धहेमशब्दानुशासन २-२-७०) सूत्रथी पायभी विमति मावी छ.