________________
સૂત્ર-૨૦ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧
૧૯૭ अङ्गबाह्यमनेकविधम् । तद्यथा- सामायिकं चतुर्विंशतिस्तवो वन्दनं प्रतिक्रमणं कायव्युत्सर्गः प्रत्याख्यानं दशवैकालिकं उत्तराध्यायाः दशाः कल्पव्यवहारौ निशीथमृषिभाषितान्येवमादि । अङ्गप्रविष्टं द्वादशविधम् । तद्यथा- आचारः सूत्रकृतं स्थानं समवायः व्याख्याप्रज्ञप्तिः ज्ञातधर्मकथा उपासकाध्ययनदशा: अन्तकृद्दशाः अनुत्तरौपपातिकदशाः प्रश्नव्याकरणं विपाकसूत्रं दृष्टिपात इति ।
अत्राह- मतिज्ञानश्रुतज्ञानयोः कः प्रतिविशेष इति । अत्रोच्यतेउत्पन्नाविनष्टार्थग्राहकं साम्प्रतकालविषयं मतिज्ञानम् । श्रुतज्ञानं तु त्रिकालविषयं उत्पन्नविनष्टानुत्पन्नार्थग्राहकम् ॥
अत्राह- गृह्णीमो मतिश्रुतयोर्नानात्वम् । अथ श्रुतज्ञानस्य द्विविधमनेकद्वादशविधमिति किंकृतः प्रतिविशेष इति । अत्रोच्यते- वक्तृविशेषाद् द्वैविध्यम् । यद्भगवद्भिः सर्वज्ञैः सर्वदर्शिभिः परमर्षिभिरर्हद्भिः तत्स्वाभाव्यात्परमशुभस्य च प्रवचनप्रतिष्ठापनफलस्य तीर्थकरनामकर्मणोऽनुभावादुक्तं भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग्बुद्धिसंपन्नैर्गणधरैर्दृब्धं तदङ्गप्रविष्टम् । गणधरानन्तर्यादिभिस्त्वत्यन्तविशुद्धागमैः परमप्रकृष्टवाङ्मतिशक्तिभिराचार्यैः कालसंहननायुर्दोषादल्पशक्तीनां शिष्याणामनुग्रहाय यत्प्रोक्तं तदङ्गबाह्यमिति ॥ सर्वज्ञप्रणीतत्वादानन्त्याच्च ज्ञेयस्य, श्रुतज्ञानं मतिज्ञानान्महाविषयम् । तस्य च महाविषयत्वात्तांस्ताननधिकृत्य प्रकरणसमाप्त्यपेक्षमङ्गोपाङ्गनानात्वम् । किञ्चान्यत्सुखग्रहणधारणविज्ञानापोहप्रयोगार्थं च । अन्यथा ह्यनिबद्धमङ्गोपाङ्गशः समुद्रप्रतरणवदुरध्यवसेयं स्यात् । एतेन पूर्वाणि वस्तूनि प्राभृतानि प्राभृतप्राभृतानि अध्ययनान्युद्देशाश्च व्याख्याताः ।
अत्राह- मतिश्रुतयोस्तुल्यविषयत्वं वक्ष्यति । द्रव्येष्वसर्वपर्यायेष्विति । तस्मादेकत्वमेवास्त्विति । अत्रोच्यते- उक्तमेतत् साम्प्रतकालविषयं मतिज्ञानं, श्रुतज्ञानं तु त्रिकालविषयं विशुद्धतरं चेति । किञ्चान्यत्