SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ श्री तापा સૂત્ર-૧૫ શ્રી તત્ત્વાથધિગમસૂત્ર અધ્યાય-૧ ૧૭૫ ऽवग्रहमभिधायास्यैव पर्यायशब्दानाह-'अवग्रहो ग्रहणमालोचनमवधारणमित्यनर्थान्तरं' सामान्यमात्रपरिच्छेदवाचित्वात् पर्यायशब्दा एवैते इति, एवमवग्रहं कथयित्वा ईहास्वरूपं कथयन्नाह-'अवगृहीत' इत्यादि, अवगृहीत इत्यनेन क्रमं दर्शयति, अवगृहीते सामान्ये ईहा प्रवर्त्तते, तामाह-'विषयाथैके'त्यादि, विषयः स्पर्शादिः, स एवार्यमाणत्वादर्थः विषयार्थः तस्यैकदेशः सामान्यमनिर्देशादिरूपं तस्माद् विषयाथैकदेशात् परिच्छिनादनन्तरं स्पर्शमात्रग्रहे तस्य मृणालस्पर्शसाधर्म्यात् ‘शेषानुगमनं' सद्भूतासद्भूतोष्णत्वादिविशेष्यत्यागोपादानाभिमुखस्वरूपेण, न संशय इव सर्वात्मना परिकुण्ठचित्तभावतः, अननुगमनेन, किमित्याह'निश्चयविशेषजिज्ञासा चेष्टे'ति निश्चीयतेऽसाविति निश्चयः-मृणालस्पर्शादिः स एव विशिष्यते-अन्यस्मादिति विशेषः तस्य ज्ञातुमिच्छा जिज्ञासा तया चेष्टा-बोधः स्वतत्त्वात्मव्यापाररूप ईहोच्यते, एवं स्वचिह्नतः ईहां निरूप्य अस्या एव पर्यायशब्दानाह-'ईहा ऊहा तर्कः परीक्षा विचारणा जिज्ञासेत्यनर्थान्तरं' सामान्येनेहावाचित्वान्नास्त्यर्थभेद एषां शब्दानामिति, एवमीहामभिधायापायमभिधातुमाह-'अवगृहीत' इत्यादि, अनेनापि क्रममाचष्टे, अवगृहीते विषये स्पर्शसामान्यादौ ततः 'सम्यगि'ति मृणालस्पर्श इत्येवमादानाभिमुखं सम्यक्, तत्र तद्भावानुगुण्यात्, नो अहिस्पर्श इत्येवं परित्यागाभिमुख्यमसम्यक्, तत्र तद्भाववैगुण्यात्, इत्येवमीहायां प्रवृत्तायां सत्यां ततः किमित्याह-'गुणदोषविचारणाऽध्यवसायापनोदोऽपाय इति' इह मृणालसाधारणो धर्मो गुणः यस्तत्र न सम्भवति धर्मः स दोषः तयोर्विचारणा-मार्गणा तयाऽध्यवसायो विमलतरबोधः स एवापनोदः मृणालस्पर्श एवायमिति निश्चयादयमुदेति, तत्रेहामितिकृत्वा, 'अपाय' इत्ययमेवंविधोऽपनोदोऽपाय इति, अपैतीत्यपायः, निश्चयेन परिच्छिनत्तीत्यर्थः, एवं स्वलक्षणतोऽपायमभिधायास्यैव पर्यायशब्दानाह-'अपायोऽपगमः अपनोदः अपव्याधः' तथा 'अपेत'
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy