SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ શ્રી તત્ત્વાર્થાધિગમસૂત્ર અધ્યાય-૧ सूत्र-४ तत्त्व छ. मे. सात ५होंने लक्षuथी भने विधानथी(= २थी) मा विस्तारथी 50शु. (१-४) टीका- जीवादयस्तत्त्वमिति, एकवचननिर्देशः अमीषामेव निरुपचरितसामान्यविशेषतत्त्वख्यापनाय सामान्यप्रधानः, इति सूत्रसमुदायार्थः, अवयवार्थं तु विग्रहपुरस्सरमाह भाष्यकार:-'जीवा' इत्यादि, तत्र सुखदुःखज्ञानोपयोगलक्षणा जीवाः, तद्विपरीतास्त्वजीवाः, आश्रूयतेगृह्यते कर्म अनेनेत्याश्रवः, शुभाशुभकादानहेतुरिति भावः, आश्रवैरात्तस्य कर्मण आत्मना संयोगो बन्धः, आश्रवस्य निरोधो गुप्त्यादिभिः संवरः, कर्मणां विपाकतस्तपसा वा शाटो निर्जरा, कृत्स्नकर्मक्षयादात्मनः स्वात्मन्यवस्थानं मोक्षः, 'इत्येष सप्तविधोऽर्थस्तत्त्वमिति' इतिशब्दः इयत्तायाम्, एतावानेव, एष इति चोदकस्य प्रत्यक्षीकृतो वचनेन, सप्तविधः इति सप्तप्रकारः, अर्थ इत्यर्यमाणत्वात्, तत्त्वमित्यस्य पदस्य एष सप्तविधोऽर्थ इति पदत्रयं व्याख्यानं, तत्त्वमिति वा व्युत्पत्तौ कथ्यं, सद्भूतं परमार्थ इति व्युत्पत्तौ तु जीवादीनां पदार्थानां स्वभावः-स्वसत्ता, इयं यदा प्राधान्येन विवक्ष्यते तदैकवचननिर्देशः तत्त्वमिति, यदा तु विशेषधर्मानुविद्धत्वादुपसर्जनत्वेन तदा बहुवचननिर्देश एवेत्याह-'एते वा सप्तास्तत्त्वानीति' एते प्राक् प्रत्यक्षीकृताः, वाशब्दो विशेषप्राधान्यापेक्षया विकल्पार्थः, सप्तार्था-जीवादयस्तत्त्वानि दृश्यानि, पुण्यपापयोश्च बन्धेऽन्तर्भावान्न भेदेनाभिधानं, यद्येवमाश्रवादयोऽपि पञ्च तर्हि न जीवाजीवाभ्यां भिद्यन्ते ततस्तेऽपि न वाच्याः, तथाहि-आश्रवो मिथ्यादर्शनादिरूपः परिणामो जीवस्य, स च क आत्मानं पुद्गलांश्च विरहय्य ?, बन्धस्तु कर्म पुद्गलात्मकं आत्मप्रदेशसंश्लिष्टं, संवरोऽप्याश्रवनिरोधलक्षणो देशसर्वभेदः आत्मनः परिणामो निवृत्तिरूपः, निर्जरा तु कर्मपरिशाटात् जीवकर्मणां पार्थक्यमापादयति स्वशक्त्या, मोक्षोऽप्यात्मा समस्तकर्मविरहित इति, तस्माज्जीवाजीवौ तत्त्वमित्ये
SR No.022485
Book TitleTattvarthadhigam Sutram Part 01
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay, Divyashekharvijay
PublisherArihant Aradhak Trust
Publication Year2014
Total Pages410
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy