________________
न्यायदीपिका। प्रमेयत्वं हि हेतुः साध्यभूतमनित्यत्वं व्यभिचरति, गगनादौ विपक्षे नित्यत्वेनापि सहवृत्तेः । ततो विपक्षाद्वयावृत्त्यभावादनैकांतिकः । बाधितविषयः कालात्ययापदिष्टः, यथाऽग्निरनुष्णः पदार्थत्वादिति । अत्र पदार्थत्वं हेतुः स्वविषयेऽनुष्णत्वे उष्णत्वग्राहकेण प्रत्यक्षेण बाधिते प्रवर्तमानोऽबाधितविषयत्वाभावात्कालात्ययापदिष्टः ।।
प्रतिसाधनप्रतिरुद्धो हेतुः प्रकरणसमः । यथा अनित्यः शब्दो नित्यधर्मरहितत्वादिति । अत्र हि नित्यधर्मरहित्वादिति हेतुः प्रतिसाधनेन प्रतिरुद्धः । किं तत्प्रतिसाधनमिति चेत् , नित्यः शब्दोऽनित्यधर्मरहितत्वादिति नित्यत्वसाधनम् । तथा चासत्प्रतिपक्षत्वाभावात् प्रकरणसमत्वं नित्यधर्मरहितत्वादिति हेतोः ।
तस्मात्पांचरूप्यं हेतोर्लक्षणमन्यतमाभावे हेत्वाभासत्वप्रसंगादिति सूक्तम् , हेतुलक्षणरहिता हेतुवदवभासमानाः खलु हेत्वाभासाः । पंचरूपान्यतमशन्यत्वाद्धेतुलक्षणरहितत्वं कतिपयरूपसम्पत्तेर्हेतुवदवभासमानत्वमिति वचनादिति । तदेतत्तदपि नैयायिकाभिमननमनुपपन्नं, कृत्तिकोदयस्य पक्षधर्मरहितस्यापि शकटोदयं प्रति हेतुत्वदर्शनात् पांचरूप्यस्याव्याप्तेः । ___किं च केवलान्वयिकेवलव्यतिरेकिणोर्हेत्वोः पांचरूप्याभावेऽपि गमकत्वं तैरेवांगीक्रियते । तथा हि—ते मन्यते, त्रिविधो हेतुः-अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति । तत्र पंचरूपोपपन्नोऽन्वयव्यतिरेकी, यथा शब्दोऽनित्यो भवितुमर्हति कृतकत्वात् । यद्यत्कृतकं तत्तदनित्यं, यथा घटः । यद्यदनित्यं न भवति तत्तत्कृतकं न भवति, यथाऽऽकाशं । तथा चायं कृतकः, तस्मादनित्य एवेति । अत्र शब्दं पक्षीकृत्यानित्यत्वं साध्यते, तत्र कृतकत्वं हेतुः । तस्य पक्षीकृतशब्दधर्मत्वात्पक्षधर्मत्वमस्ति । सपक्षे घटादौ वर्तमानत्वात् , विपक्षे गगनादाववर्तमानत्वादन्वयव्यतिरेकित्वम्।
पक्षसपक्षवृत्तिर्विपक्षवृत्तिरहितः केत्रलान्वयी । यथाऽदृष्टादयः कस्यचिप्रत्यक्षाः, अनुमेयत्वात् । यद्यदनुमेयं तत्तत्कस्यचित्प्रत्यक्षम् , यथाऽग्न्यादि