________________
न्यायदीपिका। थानुपपत्तेरिति, तथैव धूमवत्त्वोपपत्तेरिति वा । अनयोहेतुप्रयोगयोरुक्तिवैचित्र्यमात्रं । पूर्वत्र धूमवत्त्वान्यथानुपपत्तेरित्ययमर्थः-धूमवत्त्वस्यानिमत्त्वाभावेऽनुपपत्तेरिति निषेधमुखेन प्रतिपादनं । द्वितीये तु तथैव धूमवत्त्वोपपत्तेरिति अयमर्थः-अग्निमत्त्वे सत्येव धूमवत्त्वोपपत्तेरिति विधिमुखेन कथनं । अर्थस्तु न भिद्यते, उभयत्राप्यविनाभाविसाधनाभिधानाविशेषात् । ततस्तयोर्हेतुप्रयोगयोरन्यतर एव वक्तव्य उभयप्रयोगे पौनरुक्त्यात् । तथा चोक्तलक्षणा प्रतिज्ञा, एतयोरन्यतरो हेतुप्रयोगश्चेत्यवयवद्वयं परार्थानुमानवाक्यस्येति, व्युत्पन्नस्य श्रोतुस्तावन्मात्रेणैवानुमित्युदयात् ।
नैयायिकास्तु परार्थानुमानप्रयोगस्य यथोक्ताभ्यां द्वाभ्यामवयवाभ्यां सममुदाहरणमुपनयो निगमनं चेति पंचावयवानाहुः । तथा च ते सूत्रयंति " प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः" इति । तांश्च ते लक्षणपुरस्सरमुदाहरति । तद्यथा-" पक्षवचनं प्रतिज्ञा, यथा पर्वतोयमग्निमानिति । साधनत्वप्रकाशनार्थ पंचम्यंतं लिंगवचनं हेतुः, यथा धूमवत्त्वादिति । व्याप्तिपूर्वकदृष्टांतवचनमुदाहरणं । यथा यो यो धूमवानसावसावग्निमान्यथा महानसः इति साधर्योदाहरणं । यो योऽग्निमान्न भवति स स धूमवान्न भवति यथा महाहृदः इति वैधोदाहरणं । पूर्वत्रोदाहरणभेदे हेतोरन्वयव्याप्तिः प्रदर्श्यते । द्वितीये तु व्यतिरेकव्याप्तिः । तद्यथा-अन्वयव्याप्तिप्रदर्शनस्थानमन्वयदृष्टांतः । व्यतिरेकव्याप्तिप्रदर्शनप्रदेशो व्यतिरेकदृष्टांतः । एवं दृष्टांतद्वैविध्यात्तद्वचनस्योदाहरणस्यापि द्वैविध्यं बोद्धव्यं । अनयोश्चोदाहरणयोरन्यतरप्रयोगेणैव पर्याप्तत्वादितराप्रयोगः । दृष्टांतापेक्षया पक्षहेतोरुपसंहारवचनमुपनयः, तथा चायं धूमवानिति । हेतुपूर्वकं पक्षवचनं. निगमनं, तस्मादग्निमानेवेति । एते पंचावयवाः परार्थानुमानप्रयोगस्य । तदन्यतमाभावे वीतरागकथायां विजिगीषुकथायां वा नानुमितिरुदेति " इति नैयायिकानामभिमतं । तदेतदविमृश्याभिमननं । वीतरागकथायां तु प्रतिपाद्याशयानुरोधेनावयवाधिक्येऽपि विजिगीषुकथायां प्रतिज्ञाहेतुरूपाव