________________
॥ मूलम् ॥नास्त्यात्मनश्चेत्तव सक्रियत्वं, देशांतरे चेह भवांतरे वा॥ गतिःकथं तर्हि भवेत्तथा च, वायोरिवास्मान्न विभुत्वमस्य ॥२६॥
॥टीका ॥-नास्त्या० ॥ हे वैशेषिक तव मते चेद्यदि आत्मन: सक्रियत्वं नास्ति ताई देशांतरे वा भवांतरे वात्मन: कथं मतिर्भवति, यद्यात्मन: सक्रियत्वं नेष्यते तर्हि तस्य परलोकगतिर्वा न स्यात्, तथा च तव नास्तिकादप्याधिक्यं, नास्तिकेन हि तस्यं परलोकगतिर्न स्वीक्रियते, देशांतरगतिस्त्वध्यक्षसिद्धा स्वीक्रियते एव, त्वं तु तामपि निषेधयसीत्यर्थः। तस्मादात्मन सक्रियत्वादिति हेतोरस्यात्मनो विभुत्वं वायोरिव न स्यात्। तथा च प्रयोग:-आत्मा न विभुः सक्रियत्वाद्वायुवदिति वृत्तार्थः॥२६॥ ॥मूलम्॥जीवेऽत्र मध्यं परिमाणमस्त्य - विभुत्वत: कुंभ इवावदातं॥ पर्यायनाशादथ पिंडभावा-नानित्यता नापि च नित्यतास्मिन् ॥२७॥
॥टीका॥ -अथ विभुत्वे सिद्धे सति मध्यमपरिमाणाधिकरणत्वमात्मनो दर्शयति, जीवेऽत्र०, अत्र जीवेऽस्मिन्नात्मनि अस्मिन्नित्युक्ते केवलिसमुद्धातावस्थापन्नात्मनिरास:, मध्यं विभुत्वाणुत्वविकलं परिमाणमस्तीति साध्यवत्पक्षनिर्देश:, कुत इत्याह - अविभुत्वत: कुंभ इव घट इव, यथा कुंभे घटे विभुत्वाऽभावान्मध्यपरिमाणमस्तीति भावः, अवदातं स्पष्टं यथा स्यात्तथा, ननु तस्मिन्नात्मनि किं नित्यतोच्यते, उताऽनित्यते त्याशंक्याह, पर्याय०, पर्यायाणामात्मसंबंधिनां देवनारकतिर्यत्क्वादीनां नाशाद्ध्वंसान नित्यता, पिंडभावात् द्रव्यत: सत्वेन, ध्वंसाऽप्रतियोगित्वान्नानित्यताऽपि, तस्मादात्मनि नित्याऽनित्यता चात्राऽभ्युपगंतव्या, तथा च न कश्चिदोषः, इति वृत्तार्थः ॥ २७॥
सापागाणापाका १८