________________
"
हि० ॥ शब्दो द्रव्यं, कुत इत्याह - गतियुक्तभावाद् गतिमत्त्वीदित्यर्थः, गतिर्हि द्रव्य एव द्रष्टा न पुनर्गुणादिषु, द्रव्यत्वे हेतुमाह - व्याघातकत्वात् यद् व्याघातकं तद् द्रव्यमेव दृष्टं, तथा कुड्यादि, गुणादीनां व्याघातकत्वाऽसंभवात्, दृश्यते च तीव्रशब्दैर्मंदशब्दानां व्याघातकरणमिति । पुनद्रव्यत्वे हेत्वंतरमाह - गुणान्वितत्वात्, गुणा: संख्यादयस्तैरन्वितत्वात् । एको द्वौ त्रयो वा शब्दा मया श्रुता इत्यबाधितप्रतीतेर्जायमानत्वात् । अथ पुनस्तस्य द्रव्यत्वे हेतुमाह - अर्थक्रियाकारितया, यदर्थक्रियाकारि तद् द्रव्यं यथा घट इति, ननु नीलरूपस्य गुणत्वेऽपि नयनतेजोवृद्धिजनकत्वेनार्थक्रियाकारित्वाद् व्यभिचार इति चेन्न । न हि नीलं रूपं नयनतेज:प्रवर्द्धकं, किं तु तदाश्रयद्रव्यमेव । तथाहि नीलरूपाश्रये द्रव्ये गृहीते तद्गृहीतुं शक्यते, तयोश्च सर्वथाभेदाऽभावेन युगपद् ग्रहात्, नीलरूपविशिष्टं द्रव्यं गृहीतं सन्नयनतेज:प्रवर्द्धकमिति स्थितमेतत् ननु शब्दश्चेद् घटवद् द्रव्यं तर्हि तस्मिन्निव तत्र कथं रूपादिगुणा नोपलभ्यंत इत्याशंक्याह - किंचेति, आकाशगुणनिराकरणार्थं असौ शब्दोऽनुद्भूतरूपादिगुणान्वितो भवति, अत्र हि रूपादिगुणास्तु संत्येव, परमनुद्भूता इति नो दृश्यंते, वायाविव, ननु कस्तावद्धायावनुद्भूतगुण इति चेच्छृणु रूपादिरेव, ननु वायौ रूपमेव नास्ति, अनुद्भूतत्वं तत्र तस्य कुत इति चेन्न, स्पर्शेन वायोरूपस्य साधितत्वात्, तथा हि प्रयोग: - वायु रूपवान् स्पर्शनत्त्वात्, यस्तया स तथेति, वायुवत् शब्दोऽप्यनुद्भूतरूपवानिति वृत्तार्थः ॥ २३ ॥
॥ मूलम् ॥
नमः प्रदेशश्रेणिष्वा दित्योदयवशाद् दिशां ॥
-
पूर्वादिको व्यवहारो, व्योम्नो भिन्ना न दिक्ततः ॥ २४ ॥
॥ टीका ॥ - अथ वैशेषिकमतसिद्धदिगाकाशयोर्भेदं निराकरोति । नभःप्र० ॥ है
ܩܫܫܫ ܙܢܫܫܫܫܫܫܫܫܫܫ