________________
द्वितीयतृतीयचतुर्थशब्दान् जनयति, समवायिकारणस्वभावभेदात्तदुत्थकार्यस्याप्यभेद एकस्वभावजन्यत्वात्। न ह्येकस्वभावेन मृदा जनिते एकस्मिन्नेव घटे भेद उपलभ्यते, द्वितीयघटे तु स्वभावभेदेन मृदा जनितत्वाल्लभ्यतेऽपि भेदः एवं चात्माऽपि एकस्वभावत्वात् येनैव स्वभावेन सुखं जनयति तेनैव स्वभावेन दु:खमपि, तथा चैकस्वभावत्वात् सुखदु:खसांकर्यं स्यात्तथा च महती भवतो हानिर्लोकव्यवहारलोपात्, एवं कालादिष्वपि नेयमिति, तस्मान्न तद् गगनादि एकांतनित्यं स्यादिति वृत्तार्थः ॥ १९॥ ॥ मूलम्॥न सर्वथाऽनित्यतया प्रदीपा - दिकस्य नाशः परमाणुनाशात्॥ तद्दीपतेजःपरमाणवोऽमी, आसादयंत्येव तमोऽणुभावं ॥२०॥
॥ टीका ॥ -अथार्थस्य सर्वथाऽनित्यतां निराकरोति, न सर्व० हे वैशेषिक ! प्रदीपादिकस्यार्थस्य सर्वथाऽनित्यतया नाशो न स्यात्, कुत इत्याह परमाणुनाशात्, यदि प्रदीपस्य सर्वथाऽनित्यतया सर्वथा नाशोंऽगीक्रियते, तदा तदारंभकपरमाणूनामपि नाश: स्यात् एतच्च तवाप्यनिष्टं, ननु पूर्वं दृश्यमाणप्रदीपाऽदर्शने को हेतुरित्यत आह - तदिति स चासौ दीपश्च तद्दीपस्तस्मिन् ये तेजःसंबंधिपरमाणव: अमी इति उभयसम्मता: तमोरूपतया परिणता दृश्यंते, न पूर्वदृश्यमाणप्रदीपो दृश्यत इति तद्दर्शनेऽयमेव हेतुरिति वृत्तार्थः ॥२०॥ ॥ मूलम् ॥द्रव्यं तमो यद् घटवत् स्वतंत्र - तया प्रतीतेरथरूपवत्त्वात् ॥ नाऽभावरूपं प्रतियोगिनोऽपि, तथा स्वरूपं किल केन वार्यं ॥२१॥
मसार १४