________________
॥ मूलम्॥द्विघाप्ययुक्तं हि गतस्य तस्य, वह्नयादिकार्थेषु कथं न दाहः ॥ भूभूधराद्यर्थसमागमेऽपि, नास्च्छादनं स्यात्किमु तस्य चक्षुः॥८॥
॥ टीका ॥ -अथ विकल्पद्वयमध्यान्यतरविकल्पांगीकारेणाऽदक्षतां यौगस्य दर्शयति, द्विधाप्य० द्विधापि उभयथापि अयुक्तं स्यान्नतु युक्तिमत्वं स्यात्तत्कथमिति तावत् प्रथमपक्षे दोषं दर्शयति यदि हि चक्षुस्तेषु गत्वा गृह्णाति तदा तस्य चक्षुषो वयादिकार्थेषु गतस्य दाहो दहनं कथं न स्यात्, अथार्थाश्चक्षुःप्रदेशे समायांतीति द्वितीयविकल्पं दूषयति, भू: पृथ्वी भूधरा: पर्वतास्तेषां चक्षुःप्रदेशे समागमे भूभूधराद्यर्था यदि चक्षु:प्रदेशे समायांति तदा किं स्यादित्यत आह - तस्य चक्षुष आच्छादनं आवरणं किमु न स्यात्, ते ह्यागताश्चक्षुराच्छादयंति, तथा च लाभमिच्छतो मूलक्षतिस्तवायातीति वृत्तार्थः ॥८॥ ॥ मूलम् ॥न तैजसत्वादथ तस्य दाहो । वह्नयादिना चेदिति नैवमेतत् ॥ न तैजसं स्यात्तमसो ग्रहाद्यत-स्तेजो न गृह्णाति च तत्क्षणोति॥९॥
॥टीका ॥ -अथेत्यादि वचश्चपेटाताडितो यौगवावदूक: किंचित्प्रतिवदति । न तैज० अथेति नन्वर्थे । ननु अस्य चक्षुषस्तैजसत्वाद्वयादिना न दाह: स्यात् । तेजो हि तेजसि गतं सद्धर्धते न तु हीयते, इत चेन्नैवमिति प्रतिवदंतं वावदूकं पुनर्वचश्चपेटाभिस्ताडयित्वा मौनं कारयति । एतच्चक्षुस्तैजसं न स्यात् कुत इति हेतुमाह - तमसोऽधकारस्य ग्रहाद् ग्राहकत्वादित्यर्थः, तथा च तर्कोल्लेख: - यदि चक्षुस्तैजसं स्यात्तदा तमोग्राहकं न स्यात्, यद्धि तैजसं न तत्तमोग्राहकं आलोकवत्, प्रयोगोऽपि यथा चक्षुर्न तैजसं तमो ग्राहकत्वात्, यन्नैवं तन्नैव, यथालोक डुति । अत्रार्थे हेतुमाह -