________________
॥ मूलम् ॥ - तत्संततिर्नैव पदार्थसंततेः, संग्राहिकाद्यक्षण एव नष्टा ॥ नाशग्रहौ नो युपगद् भवेतां, विरुद्धभावादिव बालवृद्धते ॥३॥
॥ टीका ॥ अथ क्षणानंतरं विनश्यता प्रमाणेन स्वसंततिर्जन्यते, तया विनश्यदवस्थार्थजनितसंतते: क्षणिकत्वं साध्यत इति चेनैतदपि सुंदरमित्याह - तदिति, तत्संततिः प्रमाणसंतति: पदार्थसंतते: क्षणिकत्वरूपसाध्यग्रहपुरस्कारेण न संग्राहिका सम्यग् ग्राहिका भवति, कुत इतिविशेषणद्वारेण हेतुमाह - सा प्रमाणसंतति: किंविशिष्टा क्व आद्यक्षण एव, प्रथमक्षण एव, उत्पत्त्यनंतरं य: प्रथम: क्षणस्तस्मिन्नेव क्षणिकत्वात् क्षयंगतेत्यर्थः । भावार्थस्त्वयं - विनश्यता प्रमाणेन स्वसंततिर्जन्यते, साऽपि विनश्यती संतत्यंतरमियं किल बौद्धानां परिपाटि: । तथा च स्वनाशव्यग्रत्वात्प्रमाणसंततिरपि तथाऽवस्थापन्नार्थसंतते: कथं ग्राहिका स्थात्, नैवेत्यर्थः ॥ ननु युगपत्प्रमाणसंतते शोऽप्यस्तु, पदार्थसंततिग्रहोऽप्यस्तु, को दोष इत्यत आह - नाशश्च . ग्रहश्च नाश्ग्रहौ, स्वस्य नाश: परस्य ग्रहः, एतौ धौ युगपत् समकालं नो भवेतां । तथाहि - प्रमाणसंततिर्हि विनश्यती वा पदार्थसंततिग्राहिका विनष्टा वा, नाद्यो विनश्यत्यास्तस्या:स्वनाशव्यग्रत्वेन परकृत्यकरणाऽसमर्थत्वात्, विनाशकालादधिककालाऽलाभाच्य । न द्वितीयस्तस्या नाशस्याऽभावरूपत्वात् अभावस्य प्रतियोगिकृत्याऽकरणात् । यद्यभावोऽपि प्रतियोगिकृत्यं करोति । तदा घटाऽभावस्यापि जलाहरणक्रि याकरणप्रसक्त्या, घटव्यतिरिक्ता अप्यर्था जलाहरणं कुर्युरिति व्यवहारोच्छेदस्तस्मादिनष्टा प्रमाणसंततिर्न पदार्थसंततिग्राहिकेति । कुत इत्यत आह - विरुद्धभावाद्विरुद्धत्वादित्यर्थः ॥ अथात्र द्रष्टांतः ॥ इव यथा वृद्धबालते नो युगपद् भवेतां । द्वंद्वांते श्रूयमाणं पदं उभयत्रापि संबध्यत इति न्यायाद् वृद्धताबालते सामानाधिकरएयेनायमर्थः, एकस्मिन्नेव पुरुषे युगपद् वृद्धताबालते न संभवत इत्यर्थः इति वृत्तार्थः ॥ ३॥
टाकर 3 कर