________________
લલિત-વિસ્તરા
આ ભિરતિ
३७४
अत्राह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्म्मतीर्थकरानिति न वाच्यं गतार्थत्वात्, तथाहि ये लोकस्योद्योतकरास्ते धर्म्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेः मा भूतदुद्योतकरेष्ववधिविभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्यय इत्यतस्तद्व्यवच्छेदार्थं धर्म्मतीर्थकरानिति । आह-यद्येवं धर्म्मतीर्थकरानित्येतावदेवास्तु लोकस्योद्योतकानिति न वाच्यमिति, अत्रोच्यते, इह लोके येऽपि नद्यादिविषमस्थानेषु मुधिकया धम्र्म्मार्थभवतरणतीर्थकरणशीलास्तेऽपि धर्म्मतीर्थकरा एवोच्यन्ते, तन्माभूदतिमुग्धबुद्धीनां तेषु सम्प्रत्यय इति तदपनोदाय लोकस्योद्योतकरानप्याहेति । अपरस्त्वाह-जिनानित्यतिरिच्यते, तथाहि यथोक्तप्रकारा जिना एव भवन्तीति, अत्रोच्यते, मा भूत्कुनयमतानुसारिपरिकल्पितेषु यथोक्तप्रकारेषु सम्प्रत्यय इत्यतस्तदपोहायाहजिनानिति, श्रूयते च कुनयदर्शने - "ज्ञानिनो धर्म्मतीर्थस्य, कर्त्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥" इत्यादि, तन्नूनं ते न रागादिजेतार इति, अन्यथा कुतो निकारतः पुनरिह भवाङ्कुरप्रभवो ? बीजाभावात्, तथा चान्यैरप्युक्तम् “अज्ञानपांशुपिहितं पुरातनं कर्म्मबीजमविनाशि तृष्णाजलाभिषिक्तं, मुञ्चति जन्माङ्कुरं जन्तोः ॥ १ ॥ तथा - दग्धे बीजे यथात्यन्तं प्रादुर्भवति नाङ्कुरः । कर्म्मबीजे तथा दग्धे न रोहति भवाङ्कुरः ॥" इत्यादि, आह-यद्येवं जिनानित्येतावदेवास्तु लोकस्योद्योतकरानित्याद्यतिरिच्यते, अत्रोच्यते, इह प्रवचने सामान्यतो विशिष्टश्रुतधरादयीऽपि जिना एवोच्यन्ते, तद्यथा श्रुतजिना अवधिजिना मन पर्यायजिनाः छद्मस्थवीतरागाश्च तन्माभूत्तेष्वेव सम्प्रत्यय इति तद्व्युदासाय लोकस्योद्योतकरानित्याद्यप्यदुष्टमिति,
अपरस्त्वाह- अर्हत इति न वाच्यं, न ह्यनन्तरोदितस्वरूपा अर्हद्व्यतिरेकेणापरे भवन्तीति, अत्रोच्यते, अर्हतामेव विशेष्यत्वान्न दोष इति । आह-यद्येवं हन्त तर्ह्यर्हत इत्येतावदेवास्तु लोकस्योद्योतकरानित्यादि पुनरपार्थकं, न तस्य नामाद्यनेकभेदत्वाद् भावार्हत्सङ्ग्रहार्थत्वादिति, अपरस्त्वाह- केवलिन इति न वाच्यं यथोदाहृत तत्स्वरूपाणां अर्हतां केवलित्वे अव्यभिचारित्वात्, सति च व्यभिचारसम्भवे विशेषमर्थवद्भवति, यथा नीलोत्पलमिति, व्यभिचाराभावे तु तदुपादीयमानमपि यथा कृष्णो भ्रमरः, शुक्लो बलाहक इत्यादि ऋतेप्रया - सात्कमर्थं पुष्णातीति, तस्मात्केवलिन इत्यतिरिच्यते, न अभिप्राया परिज्ञानात्, इह केवलिन एव यथोक्तस्वरूपा अर्हन्तो नान्ये इति नियमार्थत्वेन स्वरूपज्ञापनार्थमेवेदं विशेषणमित्यनवद्यं, न चैकान्ततो व्यभिचारसम्भवे एव विशेषणोपादानसाफल्यम्, उभयपदव्यभिचारे एकपदव्यभिचारे स्वरूपज्ञापने शिष्टोक्तिषु तत्प्रयोगदर्शनात्, तत्रोभयपदव्यभिचारे यथा नीलोत्पलमिति, तथैकपदव्यभिचारे यथाअब्दव्यं पृथिवी द्रव्यमिति, तथा स्वरूपज्ञापने यथा - परमाणुरप्रदेश इत्यादि, यतश्चैवमतः केवलिन इति न दुष्टं, आह-यद्येवं केवलिन इत्येतावदेव सुन्दरं, शेषं तु लोकस्योद्योतकरानित्याद्यपि न वाच्यमिति, अत्रोच्यते, इह श्रुतकेवलिप्रभृतयो अन्येऽपि विद्यन्त एव केवलिनस्तन्मा भूत्तेष्वेव सम्प्रत्यय इति तत्प्रतिक्षेपार्थं लोकस्योद्योतकरानित्याद्यपि वाच्यमिति, एवं बयादिसंयोगापेक्षाऽपि विचित्रनयमताभिज्ञेन स्वधिया विशेषणसाफल्यं वाच्यमित्यलं विस्तरेण, गमनिकामात्रमेतदिति
પૂર્વપક્ષ-‘લોકના પ્રકાશને ક૨ના૨ા એવા અરિહંતોને હું સ્તવીશ' એટલું કથન બરોબર છે. જે ‘ધર્મતીર્થના કરનાર' એવું બીજું વિશેષણ આપો છો તે નિરર્થક-નકામું કે વધારાનું છે. કારણ કે; જે લોકના ઉદ્યોત કરનારા તે અવશ્ય ધર્મતીર્થના કરનારા જ છે. એટલે ‘લોકના પ્રકાશ કરનારા' એમ કહેવાથી જ ‘ધર્મતીર્થના કરનારા' અર્હતો હોય છે જ એમ આપો આપ સમજાઈ જ જાય છે. જો જે લોકના ઉદ્યોત કરનાર હોય, અને ધર્મતીર્થના કરનારા ન હોય તો તે પુરૂષમાં આ વિશેષણ વ્યભિચારવાળું થાય એટલે વ્યભિચારના વ્યવચ્છેદ સારૂ, ધર્મતીર્થના કરનારા એ વિશેષણ સાર્થક થાય એવું તો અહીં છે જ નહિ.
ताईडसारी मा.सा.
ગુજરાતી અનુવા