________________
७२
श्रीप्रमेयरनकोषः। गृह्यते क्रिया । नाप्यनुमानेन । अनुमानं हि लिङ्गलिङ्गिनोरविनाभावनिश्चयेन प्रवर्तते, यथा धूमाद्यनुमानम् । न च क्रियायां धूमवल्लिङ्गमुत्पश्यामः, तस्या अमूर्तत्वात् ।
अतः कथं गृह्यते क्रियेति पूर्वपक्षः। अथोत्तरः। तत्र यदुक्तं 5 "अनुबन्धयोः किं प्रयोजनं" अनुबन्धप्रयोजनममुत्र धातौ
तत्तावदुच्यते डुकारो इनुबन्धाद्विमक्; तेन निर्वृत इति विशेषार्थः । तेन पक्तिममिति सिद्धम् । षकारोऽपि षानुबन्धभिदादिभ्योऽजित्यत्र विशेषप्रयोजनार्थः; तेन पचेति सिद्धम् । यदप्युक्तं “विशिष्टकर्तृत्वद्योतिका तृतीया प्राप्नोति" 10 तदपि न युक्तं, समानाधिकरणे ऽस्य न्यायस्य वैयाकरणैरनभ्युपगमात् । यथा कृतः कटो विशेषकर्मद्योतिका द्वितीया न प्रवर्तते, तथा विशेषकर्तृत्वद्योतिका तृतीया न प्राप्नोति। यदप्युक्तं "क्रियाभावो धातुः क्रिया च साधनायत्ता"
इत्यादि, तदपि न युक्तमवभासते, “पचति" "धावति" 15 इत्यादिष्वपोद्धारद्वारेण क्रियाया अङ्गीकरणात् । यदप्युक्तं
“पञ्चविधेन प्रत्यक्षेणानुमानेन च न गृह्यते" तदप्यनुपपन्नं, तस्या अनुमानेन ग्रहणात् । तथा चोक्तं नित्यं क्रियानुमेया द्रव्यविकारेण भवति धात्वर्थः ।
कारकसाध्या द्वेधा सकर्मिकाकर्मिका चेति 20 पचतिवादः॥ २३ ॥
जैनं सांख्यं तथा बौद्धमौलूक्यं च तथापरम् । लौकायितं च मीमांसं षडेता दृष्टयः स्मृताः॥१॥ रत्नत्रयं जिनो देवो द्वे माने तत्त्वसप्तकम् ।
नित्यानित्यं जगत्सर्वमिति जैनेन्द्रदर्शनम् ॥२॥ 25 पञ्चविंशतितत्त्वानि नित्यः सर्वगतोऽक्रियः ।
आत्मा भोगी तथामूर्तः सांख्यानां मतमीदृशम् ॥ ३ ॥
1 A omits from यदप्युकं down to अङ्गीकरणात्