________________
T
श्रीप्रमेयरनकोषः।
५७ षाद्विभ्यता भवतां द्वितीयपक्षोऽभ्युपगम्यते; तदोक्तमेव दूषणमित्यत्रोपतिष्ठते । यदप्युक्तं “व्यतिरिक्तज्ञानप्रकाशकत्वपक्षे प्रतिभासमानत्वात्प्रकाशकमित्यत्र मरीचिकाज्ञानेऽपि प्रकाशस्य तुल्यत्वात्" इति, तदप्यनुचितं,प्रत्यनीकोपस्थापकप्रमाणेन बाध्यमानत्वात् “प्रतिभास एवालीकः” इति 5 साधनविकलो दृष्टान्तः । यदप्युक्तं "ज्ञानस्य वैपरीत्यं ज्ञेयस्य वा” इत्यादि, तदप्यनुपपन्नं, यतो ज्ञेयवैपरीत्यं नाभ्युपगतमेवेत्यसदुपालम्भ एव ज्ञानस्य वैपरीत्यमुपगतमेव, तच्च ज्ञानान्तरेण बाधकेन व्यवस्थाप्यत इति न तत्पक्षभावी दोषः संगतिमङ्गति। यदप्युक्तं "ग्रहणक्रियाकर-10 णादित्यचिद्रूपा व्यतिरिक्ता क्रिया" इति, तदनभ्युपगमादेव निरुक्तम् । व्यतिरिक्तापि चिद्रूपा नाभ्युपगम्यते, अचिद्रूपाभ्युपगमे तत्कारणाज्ञानं प्रकाशकं क्रियायाः, ततश्च नानवों , क्रियान्तरापेक्षया । तदाधेयपक्षस्तु न संभवत्येव, ज्ञानस्यात्मसमवेतत्वात् । तदाकारपक्षोऽप्यसं-15 भवान् , ज्ञानस्य निराकारत्वेनाभ्युपगमादिति तज्जन्याच्च। यच्च तत्र दूषणमदायि यदत्राक्षणिकप्रक्षेन यच्छतीत्युपरम्यते ॥ १५ ॥
[ XVI [अथ बौद्धहेतुखण्डनम् ] 20 यदिदमभ्यधायि शौद्धोदनशिष्यकैः “स्वभावकार्यानुपलम्भलक्षणस्त्रिधैव हेतुः" इति, तदयुक्तं, यतस्त्रिधैव तदैव युज्यते यदा हेत्वन्तराभावः केनापि प्रमाणेन निश्चितो भवेत् , यतः प्रतियोग्यभावेऽतिनिर्णयाव्यभिचारित्वाभावेषु सावधारणनिर्णयस्य । यदुक्तम् ।
25 _1 A omits 2 BC तद' 3 A ग्रहणकरणादि° 4 B C omit क्रिया" इति-ततश्च नानवस्था