________________
कारवालाकयाकरणकत्वं मिन.
श्रीप्रमेयरत्नकोषः। कुम्भादयो भावा जडा भवितुमर्हन्ति । नापि द्वितीयः पक्षः, यतोऽसौ प्रकाश्यसमानकालभावी प्रकाशः, भिन्नकालभावी वा; समानकालस्यापि प्रकाशकत्वं किं प्रतिभासमानत्वात्, आहोस्विद्हणक्रियाकरणात् , किंवाधाराधेयत्वात् , उत तदाकारत्वात् , तजन्यत्वाद्वेति विकल्पाः। न 5 तावत्प्रतिभासमानत्वात् , प्रतिभासस्य मरीचिकाज्ञानेऽपि तुल्यत्वात् । न च तत्र “वैपरीत्यं” इत्यभिधानीयं, यतः कस्य वैपरीत्यं, ज्ञानस्य ज्ञेयस्य वेति विकल्पद्वयम् । ज्ञानस्यापि वैपरीत्यं किं स्वरूपाभावः, अन्यरूपतया वा प्रकाशनम् । स्वरूपाभावोऽपि किं तस्मिन्नेव काले, कालान्तरे 10 वा । न तावत्तस्मिन्नेव काले, तदा तस्य स्पष्टरूपतयानुभूयमानत्वात् । कालान्तरे तु स्वरूपाभावस्य सर्वविज्ञानेषु समानत्वात्सर्वेषां ज्ञानानां वैपरीत्यापत्तिः। अन्यरूपतया प्रकाशनमपि किं ज्ञानं, अज्ञानं वा । तावदज्ञानस्य स्वरूपसत्तापि सिध्यति । ज्ञानमपि किं तेनैव ज्ञानेन, ज्ञाना-15 न्तरेण वा । न तावत्तेनैव, यतो न “तदहं मरीचिकाज्ञानं सजलरूपतया चकास्मि" इति वेत्ति । नापि ज्ञानान्तरेण, तदा तस्यानुभूयमानत्वात् । ज्ञेयस्यापि वैपरीत्यं किं सत्यत्वाभिमतेन ज्ञानेन ज्ञायते, बाध्येन बाधकेन वेति विकल्पाः । आयेनापि किं तद्देशादिकमागत्य प्रमेयवैपरीत्यं 20 प्रतीयते, स्वदेशव्यवस्थितेन वा । न तावत्तद्देशाद्यागमनं ज्ञानस्य क्षणक्षयित्वेन संभवति । स्वदेशव्यवस्थितं त्वन्यदेशव्यवस्थितस्य वार्तामपि न जानातीति कथं वैपरीत्यमवगच्छेत् । बाध्यमपि कि प्रत्यक्षमनुमानं वा प्रमेयवैपरीत्यप्रत्यायकम् । न तावदध्यक्षं, तस्यातीतदेशादिग्राहकत्वा-25 संभवात् । अथ "स्मरणेनोपनीतोऽतीतदेशादिः पुरोवर्तिधर्मिदेशे क्षणत्वेन व्यवस्थितो लोचनज्ञानं जनयति, तेन वैपरीत्यप्रतीतिः” इति चेत् तदप्यनुपपन्नं, स्मरणोपनी