________________
श्रीप्रमेयरत्नकोषः । तस्मादभिव्यक्तये साधनानि व्याप्रियमाणानि कथं हन्तानर्थक्यमापद्यन्त इति तदयुक्तं, व्यक्तेरस्माकमसिद्धत्वात् । तथाहि । व्यक्तिः किं स्वभावातिशयोत्पत्तिः, उत तद्विषयं विज्ञानं, तदुपलम्भावरणक्षयो वा । तत्र न तावत्स्वभावविशेषोत्पत्तिः । तथाहि । असौ स्वभावातिशयो निश्चयरू- 5 पादपृथग्भूतो वा स्यात्, पृथग्भूतो वा । तत्र यद्याद्यः कल्पः, तदा तस्य निश्चयरूपवत्सर्वदावस्थितत्वान्नोत्पत्तिर्घटामियति । अथ पृथग्भूतोऽभ्युपगम्यते; नन्वेवमपि तस्यासाविति संबन्धघट्टनं दुर्निवार्यमेवासज्यमानं केन विनिवार्यते । तथाहि । असौ भवन् भवेजन्यजनकलक्षणः, आधा-10 राधेयलक्षणो वा । तत्र न तावदाधाराधेयलक्षणः, परस्परमनुपकार्योपकारकयोस्तदसंभवात् । अभ्युपगम्यते चेदुपकारः, ननु सोऽपि व्यतिरिक्त एवाभ्युपगमनीयः, ततश्चानवस्थापत्तेः संबन्धासिद्धिः । अथाव्यतिरिक्तः, तर्हि साधनवैयर्थं निश्चयोत्पत्तावस्याप्युत्पत्तिसिद्धेः । किं च 115 असावमूर्तोऽमूर्तस्य बाधः प्रसर्पमाणभावादयुक्त एवाधारः, अधोगतिप्रतिषेधस्यैवाधारत्वायोगात् । नापि जन्यजनकलक्षणः, निश्चयलक्षणस्य कारणस्य सदा संनिहितत्वेन नित्यं कार्यजननप्रसङ्गात् । किं च । साधनप्रयोगापेक्षया निश्चयस्यातिशयोत्पादकत्वं न युक्तं; अकिंचित्कारेऽपेक्षायोगादु-20 पकारकल्पनायां पूर्वक एव दोषोऽनवस्था च । अपि च । योऽयमतिशयः पृथग्भूतः क्रियते, स किमसन् , आहोस्वित्सन्निति । तत्रासत्पक्षे प्रागिव हेतूनामनैकान्तिकता, सत्त्वे च साधनवैयर्थ्यम् । तत्राप्यभिव्यक्ताविष्यमाणायां केयमभिव्यक्तिरित्यनवस्था । तस्माद्यतिरेकपक्षेऽपि संबन्धाभा-25 वाद्रूपातिशयोत्पत्तिर्न युक्ता । नापि तद्विषया ज्ञानोत्पत्तियुक्ता, नित्यत्वात्संवित्तेः । तथाहि । सत्कार्यवादिनो भवतः 1 A ° यं 2 A पक्षावस्याप्युत्पत्तिः सिद्धिः। 3 B ° धारत्वयोगात् ।