________________
श्रीप्रमेयरत्नकोषः । भवति, अन्यथा वा । तत्र यदि ज्ञातः, तदा किं तेनैव, आहोस्विदपरस्माद्वाधाभावात् । तत्र यदि तेनैव, तदेतरेतराश्रयदोषः । तथाहि । तत्प्रामाण्ये सति बाधाभावनिश्चयो बाधाभावनिश्चये तत्प्रामाण्यमिति व्यक्तमितरेतरा5 श्रयत्वम् । अथ "अपरस्माद्वाधाभावाद्वाधाभावनिश्चयः"
इति पक्षः, तॉनवस्थालक्षणो दोषः । किं च । बाधाभावज्ञानस्य सत्यत्वं कुतः प्रमेयसत्यत्वात्, संवादकत्वाद्वा । तत्र यदि प्रमेयसत्यत्वात् , तदा प्रमेयसत्यत्वे बाधाभावसत्यत्वं, बाधाभावसत्यत्वे प्रमेयसत्यत्वम् । अथ द्वितीयः, 10 तदा तत्राप्यपरसंवादापेक्षायामनवस्था, तज्ज्ञानान्तरादपि
न प्रामाण्यनिश्चयः । किं च । परतोऽपि, प्रत्यक्षेण, अनुमानेन वेति विकल्पद्वयं कृतम् । तत्र यदि “प्रत्यक्षेण" इति पक्षः, असावसंगतः, यतः प्रत्यक्षमिन्द्रियसंबद्धेऽर्थ
उत्पद्यते, न च ज्ञानान्तर इन्द्रियसंबन्धोऽस्ति, तस्याती15 न्द्रियत्वात् । तत्कथं प्रत्यक्षं तत्प्रामाण्यनिश्चायकं भवतीति । अथ "अनुमानेन" इति पक्षः, तदा तत्र विकल्पद्वयं कृतम् । अथानुमानेनापि, साध्यसाधनसंबन्धनिश्चयोत्पन्नेन, अन्येन वेति । तत्र यदि साध्यसाधनसंबन्धनिश्चयोस्पनेन, तदा तत्रापि विकल्पद्वयं कृतं “निश्चयोऽपि प्रत्य20 क्षेण, अनुमानेन वा" । तत्र यदि "प्रत्यक्षेण" इति पक्षः,
तदा किं धर्मविषयेण, धर्मिविषयेण, उभयविषयेण वा। तत्र यदि धर्मविषयेण, तदयुक्तं, यतः संबन्धो द्विष्ठः स कथं धर्ममात्रग्रहणे निश्चितो भवति । धर्मिग्रहणेऽप्येतदेव वाच्यम् । अथोभयविषयेण; तदा तत्र वक्तव्यं “तदुभय25 विषयं प्रत्यक्षं किमेकाकारं, उभयाकारं, अनुभयाकारं वा" इति त्रयो विकल्पाः । तत्र यद्येकाकारं, तदा कथमुभयस्य ग्राहकं भवति । अथोभयाकारं तच्च न संभवति विरोधमनुपहृत्य । अनुभयाकारपक्षोऽपि न संभवति, एकप्रतिष