________________
श्रीप्रमेयरत्नकोषः। पेक्ष्यातनं द्रवादिरूपं ताम्रादिक्षणमुत्पादयति । सोऽपि स्वरसतो निरुध्यमानो वातादिकारणमपेक्ष्य कठिनादिरूपं जनयतीति सर्वथा सहेतुकत्वं विनाशस्य नाभ्युपगन्तुं युक्तम् । अभ्युपगमे वा सहेतुकत्वादेव कृतकत्वं, कृतकत्वाच्चानित्यत्वं, अनित्यस्य च विनाशस्य विनाशे पुनर्वस्तूना- 5 मुन्मजनप्रसङ्ग इति यथा विनाशस्य सहेतुकत्वं विशु
बुद्धिभिबौद्धमतानुसारिभिर्विचार्यते तथा तथा युक्तिरिक्ततामेव बिभर्तीति स्थितम् इति क्षणिकवादः ॥८॥
. [IX]
[अथ वादिमीनानायः] 10 इह हि निर्विकारमतयः सकलभुवनतलप्रख्यातमतयो निरवशेषविद्यापारावारपारगामिनो मीमांसका बौद्धाभिप्रेतां साकारतां मीमांसन्ते । प्रयोगश्चायम् । निखिलविशदाविशदविज्ञप्तीनां साकारता पक्षीकृता न विद्वजनमनांसि रञ्जयतीति साध्यो धर्मः प्रतीतिविषयातीतत्वात् ।15 यद्यत्प्रतीतिविषयातीतं तत्तन्न विद्वजनमनांसि रञ्जयतीति, यथा सिन्दुरमकरमयूरादि गोमहिषरूपतया प्रतीयमानम् । तद्रूपतया प्रतीतिविषयातीता च निखिलविज्ञप्तीनां साकारता । ततश्च न विद्वजनमनांसि रञ्जयतीति व्यापकानुपलब्धिः । तथाहि । साकारता ज्ञानस्याप्रतीयमानाभ्युपग-20 म्यते, प्रतीयमाना वा; प्रतीतिरपि प्रमाणेन वा, अप्रमाणेन वा प्रमाणेनापि प्रत्यक्षेण, अनुमानेन वा; प्रत्यक्षेणापि योगिज्ञानेन, स्वसंवेदनेन, चक्षुरादिज्ञानेन वा; चक्षुरादिज्ञानमपि स्वज्ञानस्य साकारतां प्रतिपद्यते, ज्ञानान्तरस्य वा; ज्ञानान्तरस्यापि स्वजातीयस्य, विजातीयस्य वा; स्वजातीयस्याप्येकसंततौ, भिन्नसंततौ वा; सर्वस्य च भिन्नस्य ग्राहकं, उताग्राहकं, ग्राहकमपि चक्षुरादिज्ञानं स्वप्रामाण्य
1 B omits