________________
३२
श्रीप्रमेयरनकोषः। कथं भावभेदं न कुर्यात्, भावभेदलक्षणत्वाद्वस्तुभेदस्य । अथ यौगपद्येनार्थक्रियां विधत्ते । तन्न, आद्यक्षणे समस्तकार्याणि कृत्वा द्वितीयक्षणे' किंचित्कार्य करोति वा न
वा । करोति चेत्, क्रमकारित्वप्रसङ्गः। अथ न करोति, 5 तर्हि सत्त्वमपि नास्ति, अर्थक्रियाकारित्वलक्षणत्वात्स
त्त्वस्य । प्रयोगश्चात्र । ये यद्भावं प्रत्यनपेक्षास्ते तत्स्वरूपनियताः, यथा समनन्तरफला सामग्री स्वकार्योत्पादे विनाशं प्रत्यनपेक्षाश्चामी भावा इति स्वभावहेतुः । अथ
यो यदन्वयव्यतिरेकावनुविधत्ते स तस्य कार्यमिति व्यप10दिश्यते, यथा धूमो धूमध्वजान्वयव्यतिरेकानुविधायी
तत्कार्यत्वेन व्यवहियते लोके; अनुविधत्ते च वेगवन्मुगराद्यापातान्वयव्यतिरेको विनाश इति कथं नानपेक्षत्वलक्षणो हेतुरसिद्ध इति चेत् । न, तदन्वयव्यतिरे
कानुविधानस्यैवासिद्धेः। तदसिद्धिश्च विनाशहेतूनामकिं15 चित्करत्वात् । तथाहि । तैविनाशो विधीयमानो वस्तुरूपो वा विधीयेत, अवस्तुरूपो वा । वस्तुरूपोऽपि व्यतिरिक्तो वो, अव्यतिरिक्तो वा । अव्यतिरिक्तश्चेत्, वस्तुवन्निष्पन्नत्वात्किं विनाशहेतुभिर्विधेयं, विधाने वा भिन्नकालत्वा
द्धत्वन्तरजन्यत्वाच्च भिन्नः । उक्तं च । अयमेव हि भेदो 20 भेदहेतुर्वा विरुद्धधर्माध्यासः कारणभेदश्च । ततोऽपि चेन्न
भेदः, विश्वमेकद्रव्यं स्यात् । व्यतिरेकपक्षे तु न किंचिद्विनाशहेतुभिर्विनाश्यस्यापकृतं स्यात् । तत्संबन्धिनो विनाशस्य कारणात्कथं नापकृतमिति चेत्, कस्तत्र संबन्धः। न तावत्तादात्म्यलक्षणो व्यतिरेकपक्षे संभवति । नापि 25 तदुत्पत्तिस्वरूपः, विनाशस्य विनाशहेतुभ्य एव प्रादुर्भावात्। न च वक्तव्यं “तत्कृतेन विनाशेन विनाशस्य विना
1 B तृतीयलक्षणे 2 A B omits 3 B reads अव्यरिक्तश्चेदवस्तुवन्नि