________________
श्रीप्रमेयरत्नकोषः । योगप्रत्यनीकविभागहेतुकः । कार्यद्रव्यमपि धौव्यमेव नोत्पादविनाशौ, परस्परविशीर्यमाणावयवकलापादिकार्यानुपलम्भात् । विनाशोऽपि विनाश एव । न विनाश एवोत्पादः, उत्पादविनाशावप्युत्पादविनाशावेव न ध्रौव्यं, 5 ध्रौव्यमपि ध्रौव्यमेव नोत्पादविनाशौ, परस्परविभिन्नस्वभावत्वात् । उत्पादो नाम सत्त्वं, विनाशस्तु तद्विपरीतो भावः। पूर्वोत्तरकालभाविषु पर्यायेष्वनुगतात्मकंद्रव्यमित्युत्पादव्ययध्रौव्यात्मकं वस्तु सिद्धमिति ॥ ३ ॥
[IV] 10 [अथ सप्तभङ्गीस्थापनम् ॥]
एकान्तवादिमातङ्गभञ्जने गन्धहस्तिनम् । गन्धहस्तिनमानम्य सप्तभङ्गी विचार्यते ॥१॥
इह हि लोकालोकोदरविवरवर्तियथावस्थितपदार्थसार्थप्रतिपादनप्रवीणं "स्यात्पदार्थलाञ्छितः सन् घटः" इत्यादि 15 वाक्यप्रयोगं प्रति विप्रतिपद्यन्ते । यदुत “सन् घटः "
इत्यादि वाक्यकलापादेव विवक्षितार्थसिद्धेः किमनेनाजागलाग्रावलम्बितस्तनयुगायमानेन स्यात्पदादिप्रयोगेणेति । तत्र “ सन् घटः " इति वाक्यमुदाहरणीकृत्य सर्ववाक्यसाधारणं प्रतिविधानमभिधीयते । यदुक्तं " सन् घटः" 20 इति, तत्किमिदं निरवधारणं वा, सावधारणं वा; सावधारणमपि किं साक्षात्प्रयुज्यमानावधारणं, अन्तर्भूतावधारणं वा; अन्तर्भूतावधारणमपि किमेकपदावधारणमिदं वाक्यं, पदद्वयावधारणं वेति विकल्पाः । तत्र यदि निरवधारणमिदं वाक्यं, तदा “ सन् घटः" इत्युक्त अपेक्षया सन्नपि 25 न भवति, निरवधारणत्वादेव । यथा श्रीफलमपेक्षया महत्तथापेक्षयामहदपि, द्विरूपत्वात्तस्य । एवं च सिद्धसाध्य___ 1 A पूर्वोत्तरकालभावेषु 2 B inserts वाक्यं