________________
मव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् ।" (गौतमसू. १.१.४) तथा "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम् ।" (मीमांसा. १.१.४) इत्यादि । तदयुक्तमित्युक्तं भवति । अपूर्वप्रादुर्भावस्य प्रमाणबाधितत्वादत्यन्तासतां शशविषाणादीनामप्युत्पत्तिप्रसङ्गात् । तस्मादिदमात्मरूपतया विद्यमानमेव विशेषकृद्धेतुकलापसन्निधानात् साक्षादर्थग्रहणपरिणामरूपतया विवर्तते, तथा चोत्पन्नजन्मरूपादिविशेषणं न सम्भवेत् । अथैवंविधार्थसूचकमेवैतदित्याचक्षीथास्तथा सत्यविगानमेवेत्यास्तां तावत् । _ अधुना परोक्षलक्षणं दर्शयति-इतरदित्यादि । अपरोक्षतयार्थस्य ग्राहकं ज्ञानं प्रत्यक्षमुक्तम्, तस्मादितरदसाक्षादर्थग्राहकं ज्ञानं परोक्षमिति ज्ञेयमवगन्तव्यम् । तदपि स्वसंवेदनापेक्षतया प्रत्यक्षमेव, बहिरापेक्षया तु परोक्षव्यपदेशमश्नुत इति दर्शयान्नाह-ग्रहणेक्षयेति । इह ग्रहणं प्रक्रमाद्बहिः प्रवर्तनमुच्यते, अन्यथा विशेषणवैयर्थ्यात्, तस्येक्षा अपेक्षा तया बहिः प्रवृत्तिपयलोचनयेति यावत् । तदयमर्थो-यद्यपि स्वयं प्रत्यक्षं तथापि लिङ्गशब्दादिद्वारेण बहिर्विषयग्रहणे असाक्षात्कारितया व्याप्रियत इति परोक्षमित्युच्यत इत्यर्थः ॥५६॥
(अव०) अक्षगोचरातीतः परोक्षः तदभावोऽपरोक्षः तया साक्षात्कारितया अर्थस्य वस्तुनो ग्राहकम् ईदृगेव ज्ञानं प्रत्यक्षम्, अन्यथोक्तप्रत्यक्षनिषेधः । इतरद साक्षात्कारितया स्वसंवेदनबहिःपर्यालोचनया परोक्षम् ॥५६॥
पूर्वोक्तमेव वस्तुतत्त्वमनन्तधर्मात्मकतया दृढयन्नाह
येनोत्पादव्ययध्रौव्ययुक्तं यत्सत्तदिष्यते । अनन्तधर्मकं वस्तु तेनोक्तं मानगोचरः ॥५७॥
(सो०) येन कारेणन यदुत्पादव्ययध्रौव्ययुक्तं तत्सत्स्वरूपमिष्यते तेन कारणेनानन्तधर्मकं वस्तु मानगोचरः प्रत्यक्षपरोक्षप्रमाणविषय उक्तं कथितमिति सम्बन्धः । उत्पादश्च व्ययश्च ध्रौव्यं च उत्पादव्ययध्रौव्याणि, तेषां युक्तं मेलस्तदेव सत्त्वमिति प्रतिज्ञा । इष्यते केवलज्ञानिभिरभिलष्यत इति ।
• ६० .