________________
केवलिनस्त्वादौ ज्ञानं ततो दर्शनम् ॥४५॥
मोहनीयकर्मोदयाद् हिंसात्मकशास्त्रेभ्योऽपि युक्तिकाङ्क्षादिमोहः स एव मल्लः, स हि येन हतः । रागद्वेषमोहसद्भावादेवान्यतीर्थाधिष्ठातारो न मुक्ततया प्रसिद्धाः । सुरासुरसेव्यमानत्वमानुषङ्गिकफलम् । सद्रूपान् द्रव्यपर्यायरूपान् नित्यानित्यसामान्यविशेषाद्यनन्तधर्मात्मकान् पदार्थानुपदिशति । यः सर्वाणि धनधान्यादीनि कर्माणि जीवयोग्यावधपुद्गलाः तेषां क्षयं विधाय मोक्षं सम्प्राप्तः । अपरे सौगतादयः मोक्षं प्राप्ता अपि स्वतीर्थतिरस्कारदर्शने पुनर्भवमवतरन्तः श्रूयन्ते, न तेषां कर्मक्षयः । कर्मक्षये हि भवावतारः कुतः ? ॥४६॥
तत्त्वान्याह
जीवाजीवौ तथा पुण्यं पापमानवसंवर"। बन्धश्च निर्जरामोक्षौ नव तत्त्वानि तन्मते ॥४ा
(सो०) तन्मते जैनमते नव तत्त्वानि सम्भवन्ति इति ज्ञेयम् । नामानि निगदसिद्धान्येव ।
(अव०) तत्त्वान्याह । तन्मते जैनमते तत्त्वानि ज्ञेयानि निगदसिद्धनामानि ॥४७॥
जीवाजीवपुण्यतत्त्वमेवाहतत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । कर्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४८॥
चैतन्यलक्षणो जीवो, यश्चैतद्वैपरीत्यवान् । अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः ॥४९॥ युग्मम् । . (सो०) तत्र जैनमते, चैतन्यलक्षणो जीव इति सम्बन्धः । विशेषणान्याह-ज्ञानादिधर्मेभ्यो भिन्नाभिन्न इति । ज्ञानमादिर्येषां धर्माणामिति